________________
१७६
श्रीउत्तराध्ययनदीपिकाटीका-१ जहा सा णदीणं पवरा, सलिला सागरंगमा ।
सीया नीलवंतप्पवहा, एवं हवइ बहुस्सुए ॥२८॥ व्याख्या-यथा सा नदीनां मध्ये प्रवरा सलिला नित्यजला नदी, सागरं गच्छतीति सागरङ्गमा समुद्रपातिनीत्यर्थः, न तु क्षुद्रनदीवदन्तरा विशीर्यते, सा सीता नाम्नी नदी नीलवन्तनामवर्षधराद्रेः प्रभवा प्रवहा वा, सा च पञ्चलक्षद्वात्रिंशत्सहस्रनदीयुक्ता पञ्चशतयोजनविस्तृता दशयोजनोच्चाब्धौ पतति, एवं भवति बहुश्रुतः । सोऽपि सरितामिवान्यसाधूनामशेषश्रुतज्ञानिनां मध्ये प्रवरः शुद्धाम्भःसमश्रुतान्वितः सागरमिव मुक्तिमेवासौ याति, तदर्हानुष्ठाने एवास्य प्रवृत्तेः, न ह्यन्यदर्शनिवद्देवादिभवेऽस्य विवेकिनो वाञ्छा, तथा च कथमस्यान्तरास्थानं नीलवत्तुल्योच्छितकुलप्रसूतेः, तेनैवेदृग्योग्यता स्यात् ।।२८||
जहा से णगाण पवरे, सुमहं मंदरो गिरि ।
नाणोसहिपज्जलिए, एवं हवइ बहुस्सुए ॥२९॥ व्याख्या-यथा स नगानां गिरीणां प्रवरः सुमहान् अत्युच्चः, सर्वेष्वपि भूमेर्नवनवतिसहस्रोच्चत्वान्मन्दरो मेरुगिरि नौषधीभिः प्रकर्षेण ज्वलितो दीप्तः, ता ह्यतिशायिन्यः प्रज्वलन्त्य एव स्युः, तेन गिरिरपि प्रज्वलित: स्यात् , एवं भवति बहुश्रुतः। सोऽपि श्रुतबलेनातिस्थिरः शेषाद्रिकल्पाऽन्यस्थिरसाध्वपेक्षया प्रवरः, तमस्यपि प्रकाशक आमर्पोषध्यादिलब्धिभिः ॥२९।। किं बहुना ?
जहा से सयंभुरमणे, उदही अक्खओदए ।
नाणारयणपडिपुन्ने, एवं हवइ बहुस्सुए ॥३०॥ व्याख्या-यथा (सः) स्वयम्भूरमणाभिधान उदधिः, अक्षयमविनाश्युदकं यस्मिन् स, तथा नानारत्नैर्मरकतादिभिः प्रतिपूर्णो भवेत् एवं भवति बहुश्रुतः । सोऽप्यक्षयसम्यग्ज्ञानोदको नानाऽतिशयरत्नवांश्च स्यात् , यद्वा अक्षत उदयः प्रादुर्भावो यस्यासावक्षतोदयः ॥३०॥
अथोक्तगुणानुवादात्फलोक्तेश्च बहुश्रुतमाह
समुद्दगंभीरसमा दुरासया, अचक्किया केणइ दुप्पहंसया ।
सुयस्स पुन्ना विउलस्स ताइणो, खवित्त कम्मं गइमुत्तमं गया ॥३१॥ व्याख्या-आर्षत्वात् गाम्भीर्येणाऽलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org