SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १७५ एकादशं बहुश्रुतपूजाध्ययनम् जहा से सामाईयाणं, कोट्ठागारे सुरक्खिए । नाणाधण्णपडिपुन्ने, एवं हवइ बहुस्सुए ॥२६॥ व्याख्या-यथा (सः) समाजः समूहस्तं समवयन्तीति सामाजिकाः, समूहवृत्तयो लोकास्तेषां, कोष्ठागारो धान्याश्रयः, सुष्ठ प्राहरिकादिव्यापारद्वारेण रक्षितो दस्युमूषकादिभ्यः सुरक्षितः, नानाधान्यानि शालिमुद्गादीनि तैः प्रतिपूणौ भृतो भवेत् , एवं भवति बहुश्रुतः । सोऽपि सामाजिकलोकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णो भवति, सुरक्षितश्च प्रवचनाधारतया परवादिरागादिभ्यः साधुपरिचर्यायोग्याहारादिना, "जेण कुलं आयतं" [ ] इत्यादि ॥२६॥ जहा सा दुमाण पवरा, जंबूनाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥२७॥ व्याख्या-यथा सा द्रुमाणां मध्ये प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना नाम जम्बूरिति । न हि यथेयममृतोपमफला देवाद्याश्रया च तथाऽन्यः कश्चिद् द्रुमोऽस्ति । द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव वस्तुतः पार्थिवत्वात् । अनादृतनाम्नो देवस्य जम्बूद्वीपव्यन्तरस्य आश्रयत्वेन तत्सम्बन्धिनी सा जम्बूः । ___ यथा उत्तरकुरायां (उत्तरकुरौ) सीतानद्याः पूर्वतः पञ्चशतयोजनायामविष्कम्भं जम्बूपीठं, मध्ये द्वादशयोजनपिण्डं, क्रमात् प्रदेशहान्या तद् द्विक्रोशपिण्डं स्वर्णमयं, वेदिकया वनेन वृतं चतुर्दारं त्रिसोपानं, पीठमध्ये मणिपीठकाष्टयोजनदीर्घपृथुः योजनचतुष्कपिण्डात् , तदुवं जम्बूवृक्षोऽर्द्धयोजनमवगाढोऽष्टयोजनोच्चः, तत्र स्कन्धो योजन द्वयोच्चोऽर्द्धयोजनपिण्ड: । चतस्रस्तस्य मूलशाखाः षड्योजनोच्चाः, जम्बूमध्यदेशेऽष्टयोजनानि वृत्ताः, वज्रमयं मूलं, रूप्यशाखाः, शाखामध्ये चैत्यं क्रोशदीर्घ, अर्द्धक्रोशपृथु, देशोनक्रोशमुच्चं, द्वाराणि ५००धन्वोच्चानि, तन्मध्ये मणिपीठिका ९००धन्वायामविस्तराभ्यां, २५०धन्वबाहुल्या, ऊर्ध्वं देवच्छन्दः ५००धन्वदैर्घ्यपृथुत्वे, साधिक ५००धन्वोच्चः, तत्र १०८प्रतिमाः जम्ब्वाः पूर्वशाखायां भवनं, शेषदिक्षु प्रासादाः, सिंहासनानि अनादृतदेवस्य वायव्योत्तरेशानदिक्षु, अनादृतदेवस्य चतु:सहस्राः (४०००) जम्बूसामानिकानां, इत्यादि यावत् सर्वाऽनादृतदेवपरिवारसक्तजम्बूसर्वसङ्ख्या एका कोटी, विंशतिलक्षाः, पञ्चाशत्सहस्राणि, विंशत्यधिकं शतं, एतच्चैव मानं पद्महृदपद्मानामपि श्रीदेव्याः । एवं भवति बुहश्रुतः, सोऽप्यमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि पूज्यः, शेषवृक्षोपमसाधुश्रेष्ठः, अनादृतदेवस्थानीयार्हन् स्यात् ॥२७॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy