________________
१७४
श्रीउत्तराध्ययनदीपिकाटीका-१ सेणावइ १ गाहावइ २, पुरोहि ३ गय ४ तुरग ५ वड्डइग ६ हत्थी ७ ।। चक्कं ८ छत्तं ९ चम्म १० मणि ११, कागिणी १२ खग्ग १३ दंडो १४ य ॥१॥
[वि.सा./गा.५४९] तेषामधिपतिः एवं बहुश्रुतो भवति, सोऽप्यासमुद्रहिमवत्स्थविद्याधरवृन्दख्यातकीर्तित्वाच्चतुरङ्गतो, दानाद्यैश्चतुर्भिवान्तः कर्मारिनाशोऽस्येति चतुरन्तः, ऋद्धयश्चाम\षध्याद्याश्चक्रिभञ्जकपुलाकलब्ध्याद्या महत्य एवास्य स्युः, चतुर्दशरत्नोपमानि च पूर्वाणि ॥२२।।
जहा से सहस्सक्खे, वज्जपाणी पुरंदरे ।
सक्के देवाहिवई, एवं भवइ बहुस्सुए ॥२३॥ व्याख्या-यथा स सहस्राक्षः, देवमन्त्रिपञ्चशतानां सहस्र लोचनानि, अथवा सहस्रेण लोचनानामन्ये यत् पश्यन्ति स द्वाभ्यामेव पश्यतीति सम्प्रदायः, वज्रपाणिः, लोकोक्त्या पूर्दारणात्पुरन्दरः, शक्रो, देवाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि श्रुतज्ञानेनाऽशेषातिशयविधानेन लोचनसहस्रेणेव जानीते, वज्रलक्षणस्य च पाणौ सम्भवः, पुरं शरीरं विकृष्टतपसा दारयतीति, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलत्वात् पूज्यते इति तत्पतिरुच्यते ॥२३॥
जहा से तिमिरविद्धंसे, उत्तिटुंते दिवायरे ।
जलंते इव तेएणं, एवं हवइ बहुस्सुए ॥२४॥ व्याख्या-यथा सती(सः) तिमिरं अन्धकारं विध्वंसयतीति तिमिरध्वंसी, (तिमिरविध्वंस:) उत्तिष्ठन् ऊर्ध्वं गच्छन् दिवाकरः सूर्यः, ऊर्ध्वं नभोभागमाक्रमन् अतितेजस्वितां भजते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा, एवं भवति बहुश्रुतः । सोऽप्यज्ञानतिमिरापहः, संयमस्थानेषु विशुद्धाध्यवशायत उत्सर्पन् तपस्तेजसा ज्वलन्निव स्यात् ॥२४॥
जहा से उडुवई चंदे, नक्खत्तपरिवारिए ।
पडिपुण्णे पुण्णमासिए, एवं हवइ बहुस्सुए ॥२५॥ व्याख्या-यथा स उडूनां नक्षत्राणां पतिश्चन्द्रो नक्षत्रैग्रहैस्ताराभिश्च परिवार: सञ्जातोऽस्येति नक्षत्रपरिवारितः प्रतिपूर्णः पूर्णिमास्यां स्यात् , एवं भवति बहुश्रुतः, सोऽनेकर्षीणामधिपस्तत्परिकरितः सम्यक्त्वपौर्णिमास्यां शुभ्रायां सर्वकलावत्त्वेन प्रतिपूर्णश्च स्यात् ॥२५॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org