________________
एकादशं बहुश्रुतपूजाध्ययनम्
१७३ चातिगाम्भीर्यादिगुणैः स्थिरीभूतः, धीरत्वाच्च बलवानऽप्रतिहतो दर्शनोपबृंहिभिर्बहुभिरपि प्रतिहन्तुं न शक्यत इति ॥१८॥
जहा से तिक्खसिंगे, जायखंधे विरायइ ।
वसहे जूहाहिवई, एवं भवइ बहुस्सुए ॥१९॥ व्याख्या-यथा स तीक्ष्णशङ्गो, जातोऽत्यन्तमुपचितः स्कन्धोऽस्येति जातस्कन्धः समाङ्गोपाङ्गैरुपचितो विराजते विशेषेण भाति वृषभः, यूथस्य गवां स्वामी यूथाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि परपक्षभेतृतया तीक्ष्णाभ्यां स्वाशास्त्राभ्यां शृङ्गाभ्यां युतः गच्छगुरुकार्यधुर्यत्वाज्जातस्कन्ध इव जातस्कन्धः, यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते ॥१९॥
जहा से तिक्खदाढे, उदग्गे दुप्पहंसए ।
सीहे मियाण पवरे, एवं भवइ बहुस्सुए ॥२०॥ व्याख्या-यथा स तीक्ष्णदंष्ट्रः, उदग्र उत्कटः अग्रवयःस्थत्वेन वा उदग्रः, दुःप्रधर्ष एव दुःप्रधर्षकोऽन्यैर्दुरभिभवः, सिंहो मगाणामारण्यप्राणिनां प्रवरो भवति, एवं भवति बहुश्रुतः, अयं हि परपक्षभेतृत्वात्तीक्ष्णदंष्ट्रादिभिरिव नैगमादिनयैः, प्रतिभादिगुणोदग्रतया दुरभिभवोऽन्यतीर्थ्यानां मृगस्थानीयानां प्रवर एवेति ॥२०॥
जहा से वासुदेवे, संखचक्कगयाधरे ।
अप्पडिहए बले जोहे, एवं भवइ बहुस्सुए ॥२१॥ व्याख्या-यथा स वासुदेवो विष्णुः, शङ्ख पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकी धरतीति शङ्खचक्रगदाधरः, अप्रतिहतमन्यैरस्खलितं बलं सामर्थ्यमस्येत्यप्रतिहतबलः, कोऽर्थः ? एकं सहजसामर्थ्यवान् , परं च तादृशायुधान्वितो योधः सुभटो भवति, एवं भवति बहुश्रुतः, सोऽपि ह्येकं स्वाभाविकप्रागल्भ्यवान् , अपरं शङ्खचक्रगदाभिरिव सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति । योधः कर्मारिपराभवं प्रति स्यात् ॥२१॥
जहा से चाउरंते, चक्कवट्टी महिड्डिए ।
चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥२२॥ व्याख्या-यथा स चतुर्भिर्हयगजरथनरात्मकैरन्तः शत्रुनाशात्मको यस्य स चतुरन्तचक्रवर्ती षट्खण्डभरताधिपो महद्धिको दिव्यश्रीकः, चतुर्दशरत्नानि, तानि च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org