________________
श्रीउत्तराध्ययनदीपिकाटीका - १ स्वौज्ज्वल्यमाधुर्याभ्यां, आश्रयस्य च शोभनत्वादविनाशित्वशोभाभ्यां विराजते, तत्र न कालुष्यं नाम्लतां च भजते, न च परिस्रवति । एवं बहुश्रुते भिक्षौ द्वाभ्यां हेतुभ्यां धर्मो यतिधर्मः कीर्त्तिस्तथा श्रुतमागमो विराजते, यद्यपि धर्मकीर्त्तिश्रुतानि निरुपलेपनादिगुणेन स्वयं शोभाभाञ्जि, तथापि मिथ्यात्वादिकालुष्यविगमान्नैर्मल्यादिगुणेन शङ्ख इव बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, अन्यथा तान्यपि मालिन्याकुलाश्रयेण हानिमाप्नुवन्ति ||१५||
१७२
जहा से कंबोयाणं, आइन्ने कथए सिया ।
आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥१६॥
व्याख्या- यथा येन प्रकारेण स इति प्रतीतः, कम्बोजानां कम्बोजदेशजानामश्वानां मध्ये 'निर्द्धारणे षष्ठी' आकीर्णो व्याप्तः शीलादिगुणैः, कन्थकः प्रधानोऽश्वोऽश्मखण्डभृत्कुतपपातध्वनेरत्रस्यन् स्यात्, अश्वो जवेन प्रवरः, एवं ईदृशो भवति बहुश्रुतः । जैना हि व्रतिनः काम्बोजा इवाश्वेषु जातिजयादिगुणैरन्यतीर्थ्यपेक्षया श्रुतशीलादिभिर्वरा एव । अयं त्वाकीर्णकन्थकाश्ववत्तेष्वधिको गुणैः ॥ १६ ॥ जहाइन्नसमारूढो, सूरे दढपरक्कमे ।
उभओ नंदिधोसेणं, एवं भवइ बहुस्सुए ॥१७॥
'ऽश्ववार
व्याख्या -यथा आकीर्णं जात्यादिगुणमश्वं सम्यगारूढोऽध्यासितः शूरोऽ सुभटः, दृढपराक्रमो गाढदेहबलः, उभयतो वामे दक्षिणे, अग्रे पृष्ठे वा, नान्दी धोषेण द्वादशतूर्यनिनादेन यद्वा जीयास्त्वमित्याद्याशीर्वाचो बन्दिकृतास्तद्घोषेण यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितोऽभिभूयते, एवं भवति बहुश्रुत: । जिनप्रवचनाऽश्वाश्रितो दृप्यत्परवादिदर्शनेऽप्यत्रस्तस्तज्जये क्षमः, उभयतश्चाह्नि रात्रौ स्वाध्यायरूपेण स्वपरपक्षयोर्वा चिरं जीवत्वसौ प्रवचनोद्दीपक इत्याद्याशीर्नान्दीघोषेणान्यतीर्यैर्महोद्धतैरपि नाभिभूयते, न चैतदाश्रितोऽपि वा ॥ १७ ॥
-
जहा करेणुपरिकिण्णे, कुंजरे सद्विहायणे ।
बलवंते अप्पsिहए, एवं भवइ बहुस्सुए ॥१८॥
व्याख्या- यथा करेणुकाभिर्हस्तिनीभिः परिकीर्णः परिवृतो य: [ कुञ्जरो] स षष्टिहायनः षष्टिवर्षीयः, तस्य ह्येतावत् कालं यावत् प्रतिवर्षं बलवृद्धिः, अत एव बलवान्, बलं देहसामर्थ्यमस्यास्तीति, अप्रतिहतोऽन्यैर्मदमुखैरपि गजैर्न भज्यते, एवं भवति बहुश्रुतः, सोऽपि करेणुभिरिव परवादिप्र सररोधक्षमौत्पातिक्यादिबुद्धिभिर्वृतः, षष्टिहायनतया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org