________________
एकादशं बहुश्रुतपूजाध्ययनम्
१७१ ज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते । मित्रमिति यः प्रपन्नः स यद्यपकृतिशतानि विधत्ते तथाप्येकमपि तत्सुकृतमनुस्मरन् रहसि अरहस्यपि तस्य दोषं न वक्ति । यतः
एकसुकृतेन दुःकृत-शतानि ये नाशयन्ति ते धन्याः । नत्वेकदोषजनितो, येषां दोषशतः कृतघ्नः ॥१॥[ ] ॥१२॥ कलहडमरवज्जए, बुद्धे अभिजायए ।
हिरिमं पडिसंलीणो, सुविणीए त्ति वुच्चइ ॥१३॥ व्याख्या-कलहो वाचिको विग्रहः, डमरं प्राणघातादिजं, तद्वर्जको, बुद्धो बुद्धिमानिति सर्वत्रानुगम्यमेवेति न प्रकृतिसङ्ख्याविरोधः, अभिजाति कुलीनतां गच्छतीत्यभिजातिगः, उत्क्षिप्तभारनिर्वहणात् , ह्रीमान् कलुषाशयत्वेऽप्यकार्यमाचरन् लज्जते । प्रतिसंलीनो गुरुसकाशे, अन्यत्र वा विना कार्यं यतस्ततो न चेष्टते । एवंगुणः सुविनीत इत्युच्यते ॥१३॥ इति सूत्राष्टकार्थः । स कीदृक् स्यादित्याह
वसे गुरुकुले निच्चं, जोगवं उवहाणवं ।
पियंकरे पियंवाई, से सिक्खं लद्भुमरिहई ॥१४॥ व्याख्या-वसेद् गुरुकुले गच्छे नित्यं यावज्जीवमपि गुर्वाज्ञायामेव । योगो व्यापारो धर्मस्य तद्वान् , यद्वा योगः समाधिः सोऽस्यास्तीति योगवान् । उपधानवान् अङ्गाऽनङ्गाऽध्ययनादौ यथायोग्यमाचाम्लादितपोविशेषवान् , केनचिदपकृतोऽपि प्रियङ्करः, न तत्प्रतिकूलमाचरति, मत्कर्मणामेव दोषोऽयमिति ध्यायन् अप्रियकारेऽपि प्रियं चेष्टते, यद्वााचार्यादेरिष्टाहाराद्यैरनुकूलकारी । प्रियवादी अप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलो यद्वााचार्याद्याशयानुवर्तितयैव वक्ता । तथा चास्य को गुण इत्याह-स एवंगुणः शिक्षा शास्त्रार्थग्रहणाद्यां लब्धुमर्हति, स बहुश्रुतः स्यात् नान्यः ॥१४॥ बहुश्रुतस्य पूजा कार्येति तस्य स्तवं षोडशदृष्टान्तैराह
जहा संखंमि पयं णिहितं, दुहओ वि विरायइ ।
एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥१५॥ व्याख्या-यथा जलजे शळे पयो दुग्धं निहितं न्यस्तं द्वाभ्यां प्रकाराभ्यां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org