________________
१७०
श्रीउत्तराध्ययनदीपिकाटीका-१ ___ व्याख्या-प्रकीर्णं असम्बद्धं वदतीति, अथवा यः पात्रमिदमिति चाऽपरीक्ष्यैव कथञ्चिदधिगतश्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी, प्रतिज्ञया वेदमित्थमेवेति वदनशीलः प्रतिज्ञावादी । तथा द्रोहणशीलो द्रोग्धा मित्रस्यापि । स्तब्धस्तपस्व्यहमित्याद्यहङ्कृतिमान् , तथा लुब्धोऽन्यादिष्वति श्रद्धावान् , अनिग्रहः प्राग्वत् , असंविभागी नाऽाहारादिमाप्य गृद्ध्याऽन्यस्मै स्वल्पमपि दत्ते, आत्मानमेव केवलं पोषयति । 'अवियत्ते'ति अप्रीतिकारो दृश्यमानः सम्भाष्यमाणो वा, ईगविनीत इत्युच्यते ।।९।। विनीतस्थानान्याह
अह पन्नरसहि ठाणेहिं, सुविणीए त्ति वुच्चइ ।
नीयावित्ती अचवले, अम्माई अकुतूहले ॥१०॥ व्याख्या-अथ पञ्चदशभिः स्थानैः सुष्ठ विनीत इत्युच्यते, नीचं अनुद्धतं यथा स्यादेवं नीचेषु शय्यादिषु वा वर्त्तत इत्येवंशीलो नीचवर्ती गुरुषु न्यग्वृत्तिमान्। "नीयं सिज्जंगयं ठाणं" [द.९।१-१७] इत्यादि । अचपलो नारब्धकार्यं प्रत्यस्थिरः, अथवा चपलो गतिस्थानभाषाभावभेदतश्चतुर्दा, गतिचपलो द्रुतचारी १ स्थानचपलो यस्तिष्ठन्नपि चलहस्तादिः २ भाषाचपलोऽसदऽसभ्याऽसमीक्ष्याऽदेशकालप्रलापिभेदाच्चतुर्धा । तत्राऽसदविद्यमानं, असभ्यं खरपरुषादि, असमीक्ष्य अनालोच्य प्रलपन्त्येवंशीला: असदऽसभ्याऽसमीक्ष्यप्रलापिनः, प्रायोऽदेशकालप्रलापी तु चतुर्थोऽतीते कार्ये तु यो वक्ति यदीदं तत्र देशकाले वाऽकरिष्यत् ततः सुन्दरमभविष्यत् । भावचपल: सूत्रेऽर्थे वाऽसमाप्ते एव योऽन्यं गृह्णाति । अमायी मनोज्ञाहारादि प्राप्य गुर्वादीनामवञ्चकः, अकुतूहलो न कुहकेन्द्रजालाद्यवलोकते ॥१०॥
अप्पं च अहिक्खिवई, पबंधं न च कुव्वई ।
मित्तिज्जमाणो भयइ, सुयं लद्धं न मज्जइ ॥११॥ व्याख्या-अल्पशब्दोऽभावार्थः, ततौ नैव कञ्चनाधिक्षिपति, प्रबन्धं क्रोधाधिक्यं न करोति, मित्रीयमाणोऽपि मित्रकृत्यं भजते, मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो भवेत् , श्रुतं च लब्ध्वा न माद्यति किन्तु मददोषज्ञानाद् गाढं नमितः ॥११॥
न य पावपरिक्खेवी, न च मित्तेसु कुप्पई ।
अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥१२॥ व्याख्या-न च पापपरिक्षेपी, स्खलितेऽपि गुरौ भक्तः, न च मित्रेभ्यः कृत
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org