________________
एकादशं बहुश्रुतपूजाध्ययनम्
१६९ पराधिनोर्न कथञ्चित् कुप्यति, सत्यरतः, सम्भावने, अतिलोलुपो रसलम्पटः, इति शिक्षाशील उच्यते ॥५॥ अबहुश्रुतबहुश्रुतत्वहेतोरविनीतविनीतयोः स्वरूपमाह
अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए ।
अविणीए वुच्चई सो उ, निव्वाणं च न गच्छइ ॥६॥ व्याख्या-सूत्राष्टकं सुब्ब्यत्ययाच्चतुर्दशसु स्थानेषु वर्तमानस्तिष्ठन् , तुः पूर्ती, संयतोऽविनीत उच्यते, स चाऽविनीतो निर्वाणं मोक्षं, चात् इहापि ज्ञानादींश्च न गच्छति ।।६।। चतुर्दशस्थानान्याह
अभिक्खणं कोही हवई, पबंधं च पकुव्वई । मित्तिज्जमाणो वमई, सुयं लभ्रूण मज्जइ ॥७॥ व्याख्या-अभीक्ष्णं पुन: पुनर्यद्वा क्षणं क्षणं अभिक्षणं अनवरतं क्रोधी भवति स निमित्तमनिमित्तं वा कुप्यन्नेवास्ते । प्रबन्धं च क्रोधस्यैवोत्सेकं प्रकर्षेण कुरुते, कुपितः सान्त्वनैरनेकैर्न शाम्यति, विकथादिषु वा प्रबन्धं क्रोधवृद्धिं कुरुते । मित्रीयमाणोऽपि मित्रं ममास्त्वयमितीष्यमाणोऽपि, अपेलृप्तनिर्देशात् , वमति त्यजति मैत्री मित्रीयितारं वा, यथा कोऽपि धर्मी वक्त्यहं तव कार्यं कुर्वे, स प्रत्युपकारभीरुतया प्रतिवक्ति ममालमेतेन, कृतमपि वा कृतघ्नतया न मन्यते इति वमितेत्युच्यते । अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति दर्पं याति, श्रुतं हि मदापहं, स तु तेनापि दृप्यति ।।७।। तथा
अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ ।
सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥ व्याख्या-अपिः सम्भावने, सम्भाव्यत एव तत् , यथासौ पापैः कथञ्चित् समित्यादिषु स्खलितैः परिक्षिपति तिरस्कुरुते इत्येवंशील पापपरिक्षेपी आचार्यादीनां, अपि भिन्नक्रमः, ततो मित्रेभ्योऽपि, आस्तामन्येभ्यः, कुप्यति क्रुध्यति, चतुर्थ्यर्थे सप्तमी। सुप्रियस्यापि मित्रस्यैकान्ते भाषते पापं, अयमर्थः-अग्रतः प्रियं वक्ति पृष्टौ च दोषं वक्ति ।।८।। तथा
पइन्नवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अवियत्ते, अविणीए त्ति वुच्चइ ॥९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org