________________
१६८
श्रीउत्तराध्ययनदीपिकाटीका-१ ___ व्याख्या-संयोगान्मात्रादेः कषायादेश्च विप्रमुक्तस्य अनगारस्य भिक्षोराचारमुचितक्रियाविनयबहुश्रुतपूजात्मकं प्रादुःकरिष्यामि आनुपूर्व्या शृणुत 'मे' वदतः ॥१॥ बहुश्रुतज्ञापनाय बहुश्रुतस्वरूपमाह
जे आवि होइ निव्विज्जे, थद्धे लुद्धे अणिग्गहे।
अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥ व्याख्या-यः कश्चित् , च अपि शब्दौ भिन्नक्रमौ, अपिरग्रे योक्ष्यते । भवति निर्विद्योऽपि विद्यारहितोऽपि, स्तब्धोऽहङ्कारी, लुब्धो रसादिगृद्धः, न विद्यते निग्रह इन्द्रियमनसोरस्येत्यनिग्रहः, अभीक्षण्यं पुनः उत्प्राबल्येनाऽसम्बद्धादिभाषणेन लपति, अविनीतश्च सोऽबहुश्रुत उच्यते । सविद्यस्याप्यबहुश्रुतत्वं तत्फलाऽभावात् । एतद्विपरीतोऽर्थो बहुश्रुतस्य ॥२॥ कुतोऽबहुश्रुतत्वं चेत्याह
अहं पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भइ ।
थंभाकोहापमाएणं, रोगेणालस्सेण य ॥३॥ व्याख्या-अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैः, यैरिति वक्ष्यमाणैर्हेतुभिः शिक्षा ग्रहणासेवनात्मिका न लभ्यते, तैरबहुश्रुतः स्यात् । कैः ? स्तम्भान्मानात् , क्रोधात् , प्रमादेन मद्यविषयादिना, रोगेण गलत्कुष्ठादिना, आलस्येन अनुत्साहादिना, चः समस्तानां व्यस्तानां चैषां हेतुत्वं द्योतयति ॥३॥
अह अट्टहिं ठाणेहिं, सिक्खासीले त्ति वुच्चइ ।
अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥४॥ व्याख्या बहुश्रुतत्वे हेतूनाह-अथाष्टाभिः स्थानैः, शिक्षायां शीलं स्वभावो यस्य, शिक्षां वा शीलयत्यभ्यस्यतीति शिक्षाशीलः शिक्षाभ्यासकृत् बहुश्रुत इत्युच्यतेऽर्हदाद्यैः, 'अहस्सिरे' अहसनः, हेतुं विना न हसन्नास्ते । सदा दान्त इन्द्रियनोइन्द्रियदमी, न च नैव मर्म परम्लानिकृदुदाहरेत् ॥४॥
नासीले ण विसीले, ण सिया अइलोलुए।
अकोहणे सच्चरए, सिक्खासीले त्ति वुच्चइ ॥५॥ व्याख्या-नाऽशीलः अविद्यमानशील: नष्टचारित्रधर्मः, न विशीलो विरूपशील: सातीचारवतो, न स्यात् , चः सम्भावने, अतिलोलुपो रसलम्पटः, अक्रोधनोऽपराध्यन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org