________________
१६४
श्रीउत्तराध्ययनदीपिकाटीका-१ वान्तं निषेधयति
अवउज्झिय मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बीयं गवेसए, समयं गोयम मा पमायए ॥३०॥ व्याख्या-अपोह्य त्यक्त्वा मित्राणि बान्धवांश्च स्वजनान् , मित्रबान्धवं, विपुलं चः समुच्चये, एवः पूत्तौं, धनं कनकादिद्रव्यं, तस्यौघः समूहस्तस्य सञ्चयं कोशं, मा तन्मित्रादिकं द्वितीयं पुनर्ग्रहणार्थं गवेषय ! तत्त्यागाच्छ्रामण्यमादृत्य पुनस्तत्सङ्गकृत् वान्तापायी स्यात् , अतः समयं० ॥३०॥ इत्थं ममत्वच्छेदायोक्त्वा दर्शनशुद्ध्यै आह
न हु जिणे अज्ज दीसइ, बहुमए दीसइ मग्गदेसिए ।
संपइ णेआउए पहे, समयं गोयम मा पमायए ॥३१॥ व्याख्या-'न हु' नैव जिनोऽद्यास्मिन् काले दृश्यते यद्यपि, तथापि 'बहुमए'त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु ज्ञानदर्शनचारित्राणि मुक्तिमार्गः, इह भावमार्गो गृह्यते, दृश्यते उपलभ्यते, किम्भूतः पन्थाः ? 'मग्गदेसिए'त्ति मार्गत्वेनार्थान्मुक्तेर्देशित उक्तोऽर्हता, अयमाशयः-यद्याप्यधुनाऽर्हन्नास्ति तदुपदिष्टस्तु मार्गो दृश्यते, न चेगयमतीन्द्रियार्थदशिजिनं विना स्यादित्यसन्दिग्धचित्ता भविष्यत्कालेऽपि भव्या न प्रमादं विधास्यन्ति, ततः सम्प्रति मयि नैयायिके निश्चयेन मुक्त्याख्यलाभप्रयोजने पथि, केवलाऽनुत्पत्तिसंशयविधानेन मा प्रमादीः ॥३१॥
अवसोहिय कंटयापहं, उत्तिण्णो सि पहं महालयं ।
गच्छसि मग्गं विसोहिया, समयं गोयम मा पमायए ॥३२॥ व्याख्या-अवशोध्य परिहृत्य, अकारोऽलाक्षणिकः, कण्टका द्रव्यतो बब्बूलशूलाद्याः, भावतश्चरकादिकुश्रुतयः, तैराकुलः पन्थाः कण्टकपथस्तं, अवतीर्णोऽसि अनुप्रविष्टोऽसि पन्थानं, महालयं महान् आलय आश्रयः, स द्रव्यतो राजमार्गः, भावतो महद्भिरर्हदाद्यैराश्रितः सम्यग्दर्शनादिमुक्तिमार्गस्तं, गच्छसि मार्ग न पुनः स्थित एवासि, ज्ञानाद्युत्सर्पणेन विशोध्य विनिश्चित्य, तदेवं प्रमत्तः सन् मा प्रमादीर्गोतम ! ॥३२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org