________________
दशमं द्रुमपत्रकनामाध्ययनम्
परिजूर ते सरीरयं, केसा पंडुरया हवंति ते ।
से सव्वबले य हायइ, समयं गोयम मा पमायए ॥ २६ ॥
व्याख्या - चक्षुर्बलं, घ्राणबलं, जिह्वाबलं, स्पर्शबलं, 'से' तस्य सर्वबलं, सर्वेषां करांह्याद्यवयवानां स्वस्वव्यापारसामर्थ्यं, यद्वा सर्वेषां मनोवाक्कायानां ध्यानाध्ययनगमनादिचेष्टाविषया शक्तिर्हीयते इति सूत्रषट्कार्थः ||२६||
"
जतोऽशक्तिरुक्ता, अथ रोगात्तामाह
अरई गंडं विसूइया, आयंका विविहा फुसंति ते ।
विहडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमाय ॥२७॥
१६३
व्याख्या- अरतिर्वातादिजश्चित्तोद्वेगो, गण्डं गडु, विसूचिका अजीर्णभेदः, आतङ्काः सद्यो घातिरोगाः, विविधाः स्पृशन्ति, 'ते' तव शरीरं विपतति विशेषेण बलादपैति, विध्वस्यति जीवमुक्तं विशेषेणाधः पतति शरीरकं । केशपाण्डुरत्वादि यद्यपि गौतमे न सम्भवेत्तथापि तन्निश्रया शेषशिष्यबोधार्थाददुष्टम् ||२७||
अप्रमादविधिमाह
वोच्छिंद सिणेहमप्पणो, कुमुयं सारईयं व पाणियं । से सव्वसिणेहवज्जिए, समयं गोयम मा पमाय ॥ २८ ॥
व्याख्या - व्युच्छिद्धि विविधैः प्रकारैरुत्प्राबल्येन छिन्द्धि अपनय ! कं ? स्नेहं रागं, कस्य ? आत्मनः किमिव ? कुमुदमिव यथा कुमुदं चन्द्रविकाश्युत्पलं शरदि भवं शारदं पानीयमिवेत्युपमार्थो भिन्नक्रमश्च । यथा तत्पूर्वं जलमग्नमपि जलं त्यक्त्वा वर्त्तते तथा त्वं मद्विषयं स्नेहं छिन्द्धि ! ततः 'से' इत्यनन्तरं सर्वस्नेहवर्जितः सन् समयमपि हे गौतम मा प्रमादीः, शारदशब्दोपादानं शारदजलस्येव स्नेहस्याप्यतिरम्यत्वज्ञप्त्यै ॥२८॥
किञ्च
चिच्चाण धणं च भारियं, पव्वईओ हि सि अणगारियं । मावतं पुणो वि आविए, समयं गोयम मा पमाय ॥ २९ ॥
व्याख्या- त्यक्त्वा, ण इत्यलङ्कारे, धनं चतुष्पदादि, चः भिन्नक्रमः, ततो भार्यां च, प्रव्रजितः प्रपन्नो, हिर्यस्मादसि भवसि अनगारिकं भावं भिक्षूणामनुष्ठानं अनगारितां वा । अतो मा निषेधे, वान्तं 'पुणो वि' पुनरपि आपिबसि, किन्तु समयमपि हे गौतम मा प्रमादीः ||२९||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org