________________
१६२
श्रीउत्तराध्ययनदीपिकाटीका-१ अन्यच्च
धम्म पि हु सद्दहंतया, दुल्लभया काएण फासया ।
इह कामगुणेसु मुच्छिया, समयं गोयम मा पमायए ॥२०॥ व्याख्या-धर्मं सर्वज्ञोक्तं, अपि भिन्नक्रमः, हुः वाक्यालङ्कारे, श्रद्दधतोऽपि कर्तुमिच्छतोऽपि दुर्लभकाः कायेन मनसा वाचा च स्पर्शका अनुष्ठातारः, कारणमाह-इह जगति कामगुणेषु शब्दादिषु मूछिता मूढा गृद्धिमन्तो जन्तवः, प्रायेण ह्यपायेषु रागः प्राणिनां ॥२०॥ इति सूत्रपञ्चकार्थः ।।
अन्यच्च सति देहे तत्सामर्थ्य च धर्मस्पर्शना, इति तदनित्यताख्यापनेनाऽप्रमादोपदेशं सूत्रषट्केनाह
परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते ।
से सोयबले य हायइ समयं गोयम मा पमायए ॥२१॥ व्याख्या-परिजीर्यति सर्वप्रकारं वयोहानिमनुभवति शरीरं 'ते' तव, जरादिभिरभिभूयमानतयाऽनुकम्प्यं शरीरकं । यद्वा 'परिजूरइ'त्ति 'निन्देर्जूर, इति प्राकृतलक्षणात् परिनिन्द्यतीवात्मानं, यथा धिगह कीदृशं जातमिति । यतः केशाः रोमाणि च पाण्डुरका भवन्ति, 'ते' तव, पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । 'से' तत् यत्पूर्वमासीत् श्रोत्रयोः कर्णयोर्बलं श्रोत्रबलं दुरादिशब्दश्रवणसामर्थ्य, चः समुच्चये, हीयते जरातः स्वयमपैति । पूर्वं श्रोत्रोपादानं तद्भावेन शेषेन्द्रियाऽवश्यम्भावेन पटुतरत्वेन च प्राधान्यात् ।।२१।।
परिजूरड ते सरीरयं, केसा पंडुरया हवंति ते । से चक्खुबले य हायइ, समयं गोयम मा पमायए ॥२२॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से घाणबले य हायइ समयं गोयम मा पमायए ॥२३॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से जिब्भबले य हायइ समयं गोयम मा पमायए ॥२४॥ परिजूरइ ते सरीरयं, केसा पंडुरया हवंति ते । से फासबले य हायइ, समयं गोयम मा पमायए ॥२५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org