________________
१६१
दशमं द्रुमपत्रकनामाध्ययनम् नृत्वाप्तावप्युत्तरोत्तरगुणाप्तिर्दुरापैतेत्याह
लभ्रूण वि माणुसत्तणं, आयरियत्तं पुणरावि दुल्लहं ।
बहवे दसुया मिलक्खुया समयं गोयम मा पमायए ॥१६॥ व्याख्या-सूत्रपञ्चकं । लब्ध्वापि मानुष्यं इदं वक्ष्यमाणमतिदुर्लभमेव, कथञ्चिलब्ध्वापि इत्यपेरर्थः, आर्यत्वं मगधाद्यार्यदेशोत्पत्ति, पुनरपि, अकारस्त्वलाक्षणिकः, दुर्लभं, यतः बहवो दस्यवो देशप्रात्यन्तवासिनश्चौराः, 'मिलक्खुय'त्ति म्लेच्छाः, अव्यक्तवाचो, न यदुक्तमार्यैरवधार्यते, ते च शकयवनशबरादिदेशजा नरा अपि धर्माऽधर्मगम्याऽगम्यभक्ष्याऽभक्ष्यादिसकलार्यव्यवहारबहिष्कृतास्तिर्यक्प्राया एवेति ॥१६॥
लभ्रूण वि आयरियत्तणं, अहीणपंचिंदियया हु दुल्लहा ।
विगलिंदियया हु दीसई, समयं गोयम मा पमायए ॥१७॥ व्याख्या-लब्ध्वाप्यार्यत्वं अहीनान्यविकलानि पञ्चेन्द्रियाणि स्पर्शादीनि यस्य स अहीनपञ्चेन्द्रियः, तथा तद्भावोऽहीनपञ्चेन्द्रियता, हुः निश्चये भिन्नक्रमश्च । दुर्लभैव । यद्वा हुः पुनरर्थेऽहीनपञ्चेन्द्रियता पुनर्दुर्लभा । हेतुमाह-विकलेन्द्रियता रोगाद्युपहतेन्द्रियता, हुः इति बाहुल्येन दृश्यते ॥१७॥ __ अहीणपंचिंदियत्तं पि से लहे, उत्तमधम्मसुइ हु दुल्लहा ।
कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥१८॥ व्याख्या-अहीनपञ्चेन्द्रियत्वमपि स जीवो लभते, तथापि उत्तमः प्रधानो यो धर्मस्तस्य श्रुतिः श्रवणं दुर्लभं, यतः कुतीर्थिनः शाक्याद्यास्तान्नितरां सेवते यः स कुतीर्थिनिषेवको जनो लोकः, तेषां सत्कारयशोलोभार्थित्वेन प्राणिविषयाधुपदेशत्वेन सुकरैव सेवा ॥१८॥ किञ्च
लक्ष्ण वि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा ।
मिच्छत्तनिसेधए जणे, समयं गोयम मा पमायए ॥१९॥
व्याख्या-लब्ध्वाप्युत्तमां श्रुतिं धर्मश्रुति श्रद्धानं तत्त्वरुचिः पुनरपि दुर्लभं, मिथ्याभावो मिथ्यात्वं अतत्वे तत्त्वप्रत्ययः, तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः ॥१९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org