________________
१६०
श्रीउत्तराध्ययनदीपिकाटीका-१ चउरिदियकायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखेज्जसन्नियं, समयं गोयम मा पमायए ॥१२॥ व्याख्या-द्वे इन्द्रिये स्पर्शनरसनाख्ये येषां ते द्वीन्द्रियाः कृम्यादयः, तत्कायमतिगतः, सङ्ख्येयसजितं सङ्ख्यातवर्षसहस्रात्मकं, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि ज्ञेये ॥१२॥
पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे ।
सत्तट्ठभवग्गहणे, समयं गोयम मा पमायए ॥१३॥ व्याख्या-पञ्चेन्द्रिया अग्रे देवनारकयोर्भवनादत्र च नृत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्चो ग्राह्याः, यन्मनुष्याणां सप्ताष्टभवग्रहणान्युक्तानि तत्कादाचित्कं पुण्यात्मनामेव । सप्त चाष्ट च सप्ताष्टानि, तानि च भवग्रहणानि जन्माः सप्ताष्टभवग्रहणानि, सप्तभवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यायुषि ॥१३।। तथा
देवे नेरइए य अइगओ, उक्कोसं जीवो उ संवसे ।
एक्केकभवग्गहणे, समयं गोयम मा पमायए ॥१४॥ व्याख्या-देवानां नैरयिकाणां च एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु चोत्पादात् । यद्वा 'उक्कोसं'ति उत्कर्षते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालं त्रयस्त्रिंशत्सागरमानं, एकैकभवग्रहणमिति अपेर्गम्यत्वादेकैकभवग्रहणमपि, यतो जीवः संवसेत् । इति सूत्रदशकार्थ उक्तः ॥१४॥
उक्तार्थमुपसंहरति
एवं भवसंसारे, संसरइ सुहासुहेहिं कम्मेहिं ।
जीवो पमायबहुलो, समयं गोयम मा पमायए ॥१५॥ व्याख्या-एवमुक्तप्रकारेण पृथ्व्यादिकायस्थितौ भवास्तिर्यगादिजन्मान्येव संस्रियमाणत्वात्संसारस्तस्मिन् भवसंसारे संसरति पर्यटति शुभैः शुभप्रकृतिभिः, अशुभैरशुभप्रकृतिभिः कर्मभिः पृथ्वीकायादिभवहेतुभिर्जीवः प्रमादैर्बहुलो व्याप्तः, यद्वा बहून् भेदान् लातीति बहुलो मद्याद्यनेकभेदतः प्रमादो धर्माऽनुद्यमो यस्य स बहुलप्रमादः, सूत्रत्वाद्वयत्ययः, यतोऽयं जीवः प्रमादबहुलः सन् शुभाऽशुभानि कर्माण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाजवं जवीभावं गतो भ्राम्यति, ततो दुर्लभं पुनर्नृत्वं, प्रमादमूलत्वात् सकलाऽनर्थपरम्परायाः ॥१५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org