________________
१५९
दशमं द्रुमपत्रकनामाध्ययनम्
व्याख्या-दुर्लभः खलुशब्दादपुण्यानां मानुषो भवश्चिरकालेनापि, आस्तामल्पकालेनेत्यपेरर्थः, तथा सर्वप्राणिनां गाढा स्फेटयितुमशक्या विपाका उदयाः कर्मणां, नृगतिविघातिकर्मप्रकृतीनां, ततः समयमपि० ॥४॥
नृत्वदुर्लभत्वं स्पष्टयति
पुढवीकायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईयं, समयं गोयम मा पमायए ॥५॥ व्याख्या-'पुढवी' इत्यादिसूत्रदशकं । पृथ्वी कठिनरूपा सैव कायः शरीरं पृथ्वीकायस्तमतिशयेन मृत्वा [तदुत्पत्तिलक्षणेन गतः प्राप्तोऽतिगतः] उत्कर्षतो जीवः, तुः पूत्य, संवसेत् तद्रूपतयैवावतिष्ठेत् , कालं सङ्ख्यातीतं असङ्ख्यं, असङ्ख्योत्सर्पिण्यवसर्पिणीमानं, तत एव समयमपि० ॥५॥
आउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥६॥ तेउक्कायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥७॥ वाउक्कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालं संखाईयं समयं गोयम मा पमायए ॥८॥ अप्तेजोवायुष्वसङ्ख्यं कालम् ॥६-७-८॥ ।
वणस्सइ कायमइगओ, उक्कोसं जीवो उ संवसे ।
कालमणंतदुरंतं, समयं गोयम मा पमायए ॥९॥ व्याख्या-अनन्तमन्तोत्सर्पिण्यवसर्पिणीमानमनन्तकालं, तथा दुष्टोऽन्तोऽस्येति दुरन्तं, साधारणानां प्रायो विशिष्टनृत्वाद्यलाभात् , तथा प्रत्येकवनस्पतिषु त्वसङ्ख्यं कालं संवसेत् ।।९।।
बेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखेज्जसन्नियं, समयं गोयम मा पमायए ॥१०॥ तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे । कालं संखेज्जसन्नियं, समयं गोयम मा पमायए ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org