SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनदीपिकाटीका-१ आयुषोऽनित्यत्वमाह कुसग्गे जह उसबिंदुए, थोवं चिट्ठइ लंबमाणए । एवं मणुयाण जीवियं, समयं गोयम मा पमायए ॥२॥ व्याख्या-कुशो दर्भसदृशं, तृणं, तनुतरत्वात् तस्यादानं, तस्याग्रं प्रान्तस्तस्मिन् यथाऽवश्यायः शरत्कालभावी श्लक्षणवर्षस्तस्य बिन्दुकः स्तोकं तिष्ठति, लम्बमानको मनाग् निपतन् बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवं दृढस्यापि कालाऽविलम्बेन मृतिदर्शनान्मनुजानां जीवितं कुशाग्रबिन्दुसमं, ततश्च समयमपि मा प्रमादीः ॥२॥ अमुमर्थमुपसंहरति इइ इत्तरियंमि आउए, जीवियए बहुपच्चवायए । विहुणाहि रयं पुरे कडं, समयं गोयम मा पमायए ॥३॥ व्याख्या-इतीत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि, एति उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यैवानुभवनमित्यायुः, तच्चैवं निरुपक्रममेव, तस्मिंस्तथा जीवितके च, चस्य गम्यत्वात् , सोपक्रमायुषि बहवः प्रत्यपाया उपघातहेतवो अध्यवसाननिमित्ताद्या यस्मिन् , अत एवानुकम्प्यत्वाद्बहुप्रत्यपायके, एवं द्रुमपत्रदृष्टान्तकुशाग्रजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपक्रमं चेत्वरमतोऽस्याऽनित्यतां मत्वा विधुनीहि जीवात्पृथक्कुरु ! रजः कर्म पुरा पूर्वं तत्कालापेक्षया कृतं विहितं, ततः समयमपि मा प्रमादीः । इह सोपक्रमायुषि क्षीण एव मृतिः स्यान्न तु सत्यायुषि म्रियते, परं सा काऽपि भवितव्यतास्ति, यया तत्र मर्त्तव्यमेव । परं तस्या अज्ञानाज्जीवा भीता यत्र तत्र यान्ति, यत्तत्कुर्वन्ति । येषां रोगादावपि मृतिः स्यात् सा निबद्धैव, नत्वनिबद्धा । यथा नृभवो दुर्लभस्तथा मृतिरपि सम्बद्धैव । सदप्यायुरपवर्त्तते, तया बद्धमेवाऽपवर्त्तते, नान्यत् । तेन रक्षाः सर्वा निबद्धानुयायिन्यः, निर्णीते मरणे रक्षा अफलाः, तस्मान्मिथ्यात्वं त्याज्यं । सम्यक्त्वे च स्थैर्य धार्यं । ये चाध्यवसानाद्या आयुरुपक्रमा उक्तास्ते आयुर्द्वयेऽपि स्युः, परं मृतिकालो निबद्ध एव सदैव तेषां सद्भावेऽपि मृतेः कदाचिदेव भावात् चरमदेहानामपि यन्त्रादिप्रतिघाताच्च ॥३॥ न पुनर्नुभवं लप्स्यामहे इत्याह दुलहे खलु माणुसे भवे, चिरकालेण वि सव्वपाणिणं । गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy