________________
१५७
दशमं द्रुमपत्रकनामाध्ययनम्
सोऊण तं भगवओ, मिच्छाकारस्स सो उवट्ठाइ ।
तण्णिस्साए भगवं, सीसाणं देइ अणुसिद्धिं ॥२४॥ [उत्त.नि./गा.३०६] ज्ञापकपृच्छया पृच्छत्यर्हन् , किल सत्ये, गौतमं प्रथितकीर्तिः, प्रबोधयितुमुपालम्भेन यथा किं देवानां वचनं ग्राह्यं 'आओ' उत जिनवराणां ? यतः 'देहस्स य भेयंमि । दोण्णि वि तुल्ला भविस्सामो' इत्यस्मदुक्ते शतशः श्रुतेऽप्यनिश्चयाद्देवगिरा सकृत् श्रुतयाप्यष्टापदं गतः, इत्यहो ते मोहचेष्टेति भगवत उपालम्भवचः श्रुत्वा स गौतमो 'मिच्छाकारस्य' प्रतिक्रमितुमुपतिष्ठति, तन्निश्रया गौतमनिश्रया शिष्याणामनुशिष्टिं प्रभुर्दत्ते । अप्रमादादेव मुक्तिर्न तु बाह्योपक्रमादिति । सूत्रम्
दुमपत्तए पंडुए जहा, निवडइ रायगणाण अच्चए ।
एवं मणुयाण जीवियं, समयं गोयम मा पमायए ॥१॥ व्याख्या-द्रुमस्य वृक्षस्य पत्रं, तदेव तादृगवस्थयाऽनुकम्प्यं द्रुमपत्रकं, 'पंडुए'त्ति आर्षत्वात् पाण्डुरकं कालपरिणामतः, तथाविधरोगादेर्वा श्वेतं, यथा निपतति श्लथवृन्तबन्धनत्वात् भ्रस्यति द्रुमात् , रात्रिगणानां दिनगणाविनाभावित्वात् , रात्रीणां अहोरात्राणामत्ययेऽतिक्रमे, एवं प्रकारं मनुष्याणां शेषात्मनां च जीवितं दिवारात्रिगणानामतिक्रमे स्थितिखण्डकक्षयेणाऽध्यवसायादिजनितोपक्रमणेन वा जीवप्रदेशेभ्यो भ्रस्यति, अपेर्गम्यत्वात् समयमपि अत्यन्तसूक्ष्मकालमपि, आस्तामावलिकादि, गौतमेति हे गौतमसगोत्रेन्द्रभूते ! मा प्रमादीः प्रमादं मा कृथाः, शेषशिष्योपलक्षणं च गौतमामन्त्रणं, अत्र च पाण्डुपदातिक्षिप्तं यौवनस्याप्यनित्यत्वमावि:कर्तुमाह नियुक्तिकृत्
परियट्टियलायन्नं, चलंतसंधिं मुयंतबिटागं । पत्तं च वसणपत्तं, कालपत्तं भणइ गाहं ॥१॥ [ उत्त.नि./गा.३०७] जह तुब्भे तह अम्हे, तुब्भे वि य होहिया जहा अम्हे ।
अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥ [ उत्त.नि./गा.३०८] अप्पाहेइ त्ति वक्ति
न वि अत्थि न वि य होही, उल्लावो किसलपंडुपत्ताणं ।
उवमा खलु एस कया, भवियजणविबोहणट्ठाए ॥३॥ [उत्त.नि./गा.३०९] यथेह किसलयानि पाण्डुपत्रेणानुशिक्ष्यन्ते तथान्योऽपि यौवनगवितो वृद्धेन शिक्ष्यते ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org