________________
१६५
दशमं द्रुमपत्रकनामाध्ययनम्
एवं पूर्वेण दर्शनशुद्धिमनेन च मार्गप्रतिपत्तिमुक्त्वा तत्प्रतिपत्तावपि कस्यचिदनुतापः स्यादिति तन्निराचिकीर्षयाह
अबले जह भारवाहए, मा मग्गे विसमे विगाहिया ।
पच्छा पच्छाणुतावए, समयं गोयम मा पमायए ॥३३॥ व्याख्या-अबलो देहसामर्थ्यहीनो यथा भारवाहको, मा मार्ग विषमं मन्दसत्त्वैर्दुस्तरं अवगाह्य प्रविश्य त्यक्ताङ्गीकृतभारः सन् पश्चात् कालानन्तरं पश्चादनुतापकः पश्चात्तापकद्भरिति । यथा कश्चिद्देशान्तरगतो बहूपायैः स्वर्णाधुपाय॑ गृहमायानतिभीरुरन्यवस्तुगुप्तं स्वर्णादि शिरस्यारोप्य कत्यहानि सम्यगुदूह्य, ततः क्वाप्युपलादिकष्टमार्गे भारेणाक्रान्तोऽहमिति तं त्यक्त्वा गृहागतो निर्धनतयानुतप्यते, किं मयाऽभाग्येन तत्त्यक्तमिति । एवं त्वमपि प्रमादितया त्यक्तसंयमभारः सन्नेवंविधो माभूः ॥३३॥
बह्वद्यापि तार्यमल्पं तीर्णमित्याशयेनोत्साहभङ्गः स्यादिति तन्निषेधायाह यद्वा बहु तीर्णमल्पं च तार्य, ततः का प्रमादभीरिति ध्यातुर्वारणार्थमाह
तिन्नो हु सि अन्नवं महं, किं पुण चिट्ठसि तीरमागओ ।
अभि तुर पारं गमित्तए, समयं गोयम मा पमायए ॥३४॥ व्याख्या-तीर्ण एवासि अर्णवं महान्तं, किमिति प्रश्ने, पुनरिति वाक्यारम्भे, भवः, उत्कृष्टस्थितीनि वा कर्माणि, स द्विविधोऽप्यर्णवस्त्वयोत्तीर्णप्रायः, किं पुनस्तिष्ठसि? केन हेतुना औदासीन्यं भजसे ? तीरं पारं आगतः, आसन्नीभूतो भवस्य उत्कृष्टस्थितिकर्मणां वा तीरमागतः 'अभितुर'त्ति अभिमुखेन त्वरस्व शीघ्रो भव ! पारं परतीरं भावतो मुक्तिपदं गन्तुं । यथा पोतं तीरासन्नागतमपि तीरमप्राप्तं द्वितीयवेलायां मज्जति, तथा साधुनिर्ग्रन्थत्वे प्राप्तेऽपि प्रमादानन्तभवं पतति ॥३४॥ अप्रमादफलमाह
अकलेवरसेणिमुसिया, सिद्धि गोयम लोयं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ॥३५॥ व्याख्या-अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभपरिणामेन क्षपकश्रेणिं उत्सृत्योत्तरोत्तरसंयमस्थानाप्त्योच्छ्रितामेव कृत्वा, सिद्धि हे गौतम ! लोकं स्थानं गमिष्यसि क्षेमं परचक्राद्युपद्रवहीनं, चः समुच्चये, शिवं सर्वदुरितशान्तियुक्, अनुत्तरं सर्वोत्कृष्टं इति ॥३५॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org