SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५४ श्रीउत्तराध्ययनदीपिकाटीका-१ दिन्नादीनां शुष्कपत्राद्यशिनां भगवच्छत्रातिच्छत्रं पश्यतां, कोडिन्नादीनां नीलकन्दाशिनां स्वामिनं पश्यतां केवलं जातम् ।। गौतमस्तत्पुरोगः प्रभुं प्रदक्षिणय्याऽनमत् , ते तु सर्वे प्रभुं प्रदक्षिणय्य केवलिपर्षदं गताः, गौतमोऽवक् एत भोः प्रभुं नमत ? स्वाम्यूचे गौतम केवलिनां माशातय ! तत् श्रुत्वा गणी मिथ्यादुःकृतं दत्वा, नाद्यापि मे केवलमित्यधृति दधौ । जिनो जगौ न किं देवानां वचनं अष्टापदगतस्य मुक्तिरित्येवंरूपं त्वया ग्राह्यमथार्हतः ? गणी जगौ अर्हद्वाक् प्रमाणं । ततः काऽधृतिः ? सुंठ १ वंश २ चर्म ३ कम्बलकट ४ चतुष्कदृष्टान्ततेनात्मनि कम्बलकटसमं स्नेहं ज्ञापयन्नन्ते केवलज्ञानतुल्यावावां भविष्यावः, माऽधृति धेयाः, ततस्तदने द्रुमपत्रकं नामाध्ययनं प्रभुर्जगौ । अथ नियुक्तिगाथा दुमपत्तेणोवम्मं, अहाठिईए उवक्कमेणं च । एत्थ कयं आदिमि, तो दुमपत्तं च अज्झयणं ॥१॥ [ उत्त.नि./गा.२८३] अर्थः-द्रुमपत्रेणौपम्यं आयुषः, केन गुणेनेत्याह-यथास्थित्या स्वकालेन, तथा उपक्रमेण च, दीर्घकालस्थितेः प्रतिघातात् स्वल्पकालकरणेन, आदावत्राध्ययने कृतं, ततो द्रुमपत्रमित्यध्ययनमिदं ॥१॥ मगहापुरनगराओ, वीरेण विसज्जणं तु सीसाणं । सालमहासालाणं, पिट्ठीचंपं च आगमणं ॥२॥ [ उत्त.नि./गा.२८४] पव्वज्जा गागलिस्स, केवलिनाणुप्पयाय तिण्हं पि । आगमणं चंपपुरिं, वीरस्स अवंदणं तेसिं ॥३॥ [ उत्त.नि./गा.२८५] चंपाए पुण्णभइंमि, चेइए नायओ पहियकित्ती । आमंतेउं समणे, कहेइ भगवं महावीरो ॥४॥ [ उत्त.नि./गा.२८६] नायको ज्ञातजः ज्ञायतो वा, प्रथितकीर्तिः अट्ठविहकम्ममहणस्स, तस्स पयत्तीए सुद्धलेसस्स । अट्ठावए नगवरे निसीहिया निट्ठियट्ठस्स ॥५॥[उत्त.नि./गा.२८७ ] अष्टविधकर्ममथनस्य तस्य प्रकृत्या शुद्धलेशस्य अष्टापदे नगवरे निषीधिकी निर्वाणं तया निष्ठितार्थस्य । उसहस्स भरहपिउणो, तिलुक्पगासनिग्गयजसस्स । जो आरोढुं वंदइ, चरिमसरीरो उ सो साहू ॥६॥ [ उत्त.नि./गा.२८८ ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy