________________
दशमं द्रुमपत्रकनामाध्ययनम्
१५३ मशोकतरोरधः पृथिवीशालापट्टकमेत्यारुह्य विमनाः सङ्कल्पविकल्पान् दध्यौ । पुण्डरीकधात्र्या तं दृष्ट्वा राज्ञे प्रोक्तं । राजा सान्तःपुर एत्य तं त्रिःप्रदक्षिणय्य 'धन्यस्त्वमसि' इत्यादि सर्वं तथैवोचे, स तूष्णीं तस्थौ । राज्ञोचे अस्ति किं ते भोगैरर्थः ? तेन ओमित्युक्ते राजा तं राज्येऽभिषिच्य स्वयं च जातमहावैराग्य पञ्चमुष्टिलोचेन चातुर्यामं धर्मं प्रपद्य कण्डरीकस्यैव भाण्डोपधि लात्वा 'कल्पते मे स्थविरेभ्यो धर्मप्रतिपत्तेरनु आहारः' इत्यभिगृह्य स स्थविराभिमुखं निर्ययौ । कण्डरीकस्तु प्रणीतं भोजनाद्यश्नन् राज्यान्तःपुरादिषु महामूर्छावान् गूढविसूचिकावेदनातॊ रौद्रध्यानी अकाममरणेन मृत्वा सप्तमनरके ३३सागरायुर्जातः ।
पुण्डरीकोऽपि स्थविरान् प्राप्य द्विश्चातुर्यामं धर्मं प्रतिपद्याष्टमतपःपारणेऽदीनः कालातिक्रान्तशीतरूक्षाऽरसविरसाहारजातवेदनायाः प्राणान्तं ज्ञात्वा 'करयलपरि' जाव शीर्षकृताञ्जलिः 'नमो त्थु णं० जाव ठाणं संपत्ताणं, नमो त्थु णं थेराणं भगवन्ताणं मम धम्मायरियाणं', इत्यादिसर्वपापस्थानानि व्युत्सृज्यालोच्य प्रतिक्रान्तो मृत्वा सर्वार्थसिद्धौ देवोऽभूत् , महाविदेहे च सेत्स्यति । तस्मात्त्वं दुर्बलत्वं स्थूलत्वं वा मा ध्यायस्व ? दुर्बलोऽपि कण्डरीको दुर्ध्यानी सप्तमं नरकं गतः, पुण्डरीकः पुष्टोऽपि शुभध्यानी सर्वार्थसिद्धौ । तत एवं हे देवानुप्रिय ! 'दुर्बलो वा बलवान्' इति हेतुानविषये एव कार्य इति । धनदः प्रभुमाकूतं जज्ञे इति संवेगमापन्नो नत्वा गतः, तेनैवं धनदनामसामानिकसुरेण वैरिस्वामीजीवेन पुण्डरीकाध्ययनमुद्ग्राहितं पञ्चशतानीति । ततश्च्युतोऽसौ वैरिस्वाम्यभूत् । केऽप्याहुः स जृम्भकदेव इति ।
अथ प्रातर्गणी चैत्यानि नत्वोत्तरन् कोडिन्नाद्यैरुक्तो यूयं गुरवो वयं च शिष्याः, गणी जगौ युष्माकं मम चार्हन् गुरुः, ते ऊचुर्भवतामप्याचार्यः ! स्वाम्यहंद्गुणस्तवं चक्रे । दशमपारणे श्रीगौतमेन ते सुरीदत्तवेषाः प्रव्राजिताः, तैः सह गौतमश्चचाल । भिक्षावेलायां केन वः पारयामीति वदन् पायसेनेति तैरूचे । ततो गणी सर्वलब्धिः कस्यापि गृहिणो गृहे सशर्कराज्यपायसं प्रासुकं लब्ध्वा पात्रमापूर्यागतः, विधिना तान् परिपाट्यमुपावेश्य लाभं ज्ञात्वाऽक्षीणमहानसिकस्तेषां यथेष्टं परिवेषयामास । सर्वे ध्राता विस्मिताः, स्वाम्यप्यपारयत् । सर्वेऽथ समवसरणं प्रस्थिताः । सेवालाशिनां पायसं भुञ्जतामेवाहो शुभकर्मोदयोऽस्माकं, सर्वश्रुतोदधिर्गुणनिधिः सिद्धिपुरसार्थवाह: श्रीगौतमो मिलितः स्वयम्भूरमरणान्तः पतितरत्नमिव, सुदुर्लभा संसारार्णवतारिण्यर्हद्धर्मबोधिः, प्राप्तस्त्रिभुवनचिन्तामणिः सवजगज्जीववत्सलो भगवान् श्रीमहावीरः, ततो निस्तीर्ण एवास्माभिर्जन्मजरामृतिरोगशोकजलवीचिवान् भवाब्धिरित्यादिसंवेगं प्राप्तानां सेवालादीनामपूर्वकरणादिक्रमेणर्द्धभुक्ते एव,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org