________________
१५२
श्रीउत्तराध्ययनदीपिकाटीका-१ मूलकन्दानदन्नाद्यां मेखलामारूढः । दिन्नः सतन्त्रः षष्ठं कृत्वा शटितपत्राण्यदन् द्वितीयमेखलामारूढः । सेवालः सतन्त्रोऽष्टमं कृत्वा शुष्कसेवालमदनस्तृतीयमेखलां विलग्नः, एवं ते तिष्ठन्ति, गौतममुदाराङ्ग हुतभुक्तडित्तरुणार्काभमायान्तं ते वीक्ष्योचुरेषः स्थूलदेहः कथमारोहयिष्यति ? वयं महातप:शुष्का न शक्नुम आरोढुं । गौतमस्तु जङ्घाचारणलब्ध्या लूतातन्तुनिश्रयापि चलंस्तेषां पश्यतामेवागतो गतश्चाऽदृश्यतां । ते विस्मिताः पश्यन्तो यदैष उत्तरेत्तदाऽस्यैव शिष्या वयं भविष्याम इति दध्युः ।
अथ गौतमस्तत्र चैत्यानि नत्वेशान्यां दिशि पृथिवीशिलापट्टेऽशोकद्रोरधो रात्रिवासकं स्थितः, इतो धनदोऽष्टापदे चैत्यानि नन्तुमेतो गौतमं नत्वा देशनायां साधुगुणान् 'अन्ताहाराः प्रान्ताहाराः साधवः स्युः' इत्यादिकान् श्रुत्वा दद्यौ, यदेष गुरुरेवं साधुगुणान् वक्ति, स्वयं च तां रूपश्रियं धत्ते, या देवानामपि न, एवं तदाकूतं गौतमो ज्ञात्वा पुण्डरीकाध्ययनमूचे । यथा पुष्कलावतीविजये पुण्डरीकिण्यां पुर्यां महापद्मराट् , पद्मावती राज्ञी, तत्कुक्षिसमुद्भवौ पुण्डरीककण्डरीकाभिधौ पुत्रौ सगुणौ । पुण्डरीको युवराजोऽभूत् । तत्र नलिनीगुल्मोद्याने स्थविराः समवसृताः, तदन्ते धर्मं श्रुत्वा महापद्मः पुण्डरीकं राज्ये संस्थाप्य प्राव्राजीत् । चतुर्दशपूर्वाण्यधीत्य षष्ठाष्टमादिमहातपोभिर्बहुवर्षश्रामण्यान्मासिक्या संलेखनया च स सिद्धः, अन्यदा त एवाचार्याः पूर्वानुपूर्व्या विचरन्तः पुण्डरीकिण्यां समवसृताः, पुण्डरीकस्तदन्ते श्राद्धधर्मं प्रपन्नः, कण्डरीको विरक्तो व्रतार्थं पुण्डरीकं पप्रच्छ। स ऊचे भ्रातरं तुभ्यं राज्यं ददे, स तु नैच्छत् । तदा पुण्डरीकेण विषयसुखानि, दीक्षादुःपालनदृष्टान्तान् अष्टादशपापस्थानाधाकर्मादिदोषकान्तारभक्तदुभिक्षभक्तग्लानभक्तप्राघूर्णकभक्तवार्दलिकाभक्तादिबीजफलहरितभक्तत्यागशीतोष्णादिसहनान्युक्त्वा बहुवारितो बोधितोऽप्यतिष्ठन्ननिच्छया कृतमहः प्राव्राजीत् । एकादशाङ्गान्यधीत्य षष्ठोष्टमादितपः स चक्रे । अन्यदा तस्यान्तप्रान्ताहारेण रोगा जाताः, सोऽधिसहमानो विहरन् वर्षसहस्रेणाचार्यैः सह पुण्डरीकिणीं प्राप्तः, पुण्डरीको वन्दमानः कण्डरीकं रुजाक्रान्तं दृष्ट्वा स्थविरैः सह स्वयानशालामानीय शुभाहारेण क्षिप्रं तस्य रोगानशामयत् । स बलिष्ठाङ्गोऽप्याहारगृद्धो गुरुषु चलितेष्वपि तत्र स्थितः श्लथसंयमोऽभूत् । पुण्डरीकस्तद् ज्ञात्वा तस्मै वैराग्योपदेशमूचे, धन्यस्त्वं विषयदेहधनराज्याद्यसारमस्थिरं मलिनं रिपुचौरादिवश्यं त्यक्त्वा दीक्षितः, अहं त्वधन्योऽचारित्रीति ।।
ततः स तूष्णी स्थितः, एवं द्विस्त्रिरुक्तो लज्जयाऽनिच्छुरपि पुण्डरीकं पृष्ट्वा गुरूणां मिलितः, किञ्चित्कालं तैः समं विहत्य पुनश्चारित्रावरणीयकर्मोदयवशाद्दीक्षानिर्वण्णो गुरून् मुक्त्वोत्प्रव्रजितुकामः पुण्डरीकिण्यां पुण्डरीकराजावासाऽशोकवनिकाया
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org