SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १५० श्रीउत्तराध्ययनदीपिकाटीका-१ उपसंहरति एवं अभित्थुणंतो, रायरिसिं उत्तमाए सद्धाए । पायाहिणं करंतो, पुणो पुणो वंदइ सक्को ॥५९॥ व्याख्या-एवमुक्तरीत्याऽभिष्टुवन् राजर्षि नमि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते शक्रः ॥५९।। तो वंदिऊण पाए, चक्कंकुसलक्खणे मुणिवरस्स । आकासेणुप्पइओ, ललियचवलकुंडलकिरीडी ॥६०॥ व्याख्या-ततः (पाठान्तरे-स इति शक्रः) वन्दित्वा पादौ चक्राङ्कशलक्षणौ चक्राङ्कशप्रधानौ मुनिवरस्य नमिनाम्नः, आकाशेनोत्पतितः, ऊर्ध्वं स्वर्गाभिमुखं गतः, ललिते च सविलासतया चपले च ते तथाविधे कुण्डले यस्य स ललितचपलकुण्डलः स चासौ किरीटी च मुकुटवान् स ललितचपलकुण्डलकिरीटी ॥६०॥ स्तूयमानः स उत्कर्षं नागादित्याह नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामन्ने पज्जुवट्ठिओ ॥६१॥ व्याख्या-नमिर्नमयति स्वं तत्त्वभावनया वशीकरोत्यात्मानं, नतूत्सेकं नयति, साक्षात् प्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः, त्यक्त्वा गेहं, सूत्रत्वाद्विदेही विदेहेषु भवां वैदेहीं मिथिलापुरी सुब्यत्ययात् , त्यक्त्वा, श्रामण्ये श्रमणभावे पर्युपस्थित उद्यतोऽभून्न तु तत्प्रेरणतो धर्मे विप्लुतोऽभूत् ॥६१॥ यथैष एवमन्येऽपि स्युरित्याह एवं करंति संबुद्धा, पंडिया पवियक्खणा । विणियटृति भोगेसु, जहा से णमी रायरिसि ॥६२॥ त्ति बेमि व्याख्या-एवमिति यथैतेन नमिना निश्चलत्वं कृतं तथान्येऽपि कुर्वन्ति, उपलक्षणत्वादकार्षुः करिष्यन्ति वा, सम्बुद्धा मिथ्यात्वादिहान्या ज्ञातजीवादितत्त्वाः पण्डिताः सुनिश्चितशास्त्रार्थाः, प्रविचक्षणा: अभ्यासातिशयक्रियां प्रति प्रधानाः, विनिवर्तन्ते विशेषेण निवर्तन्ते भोगेभ्यो, यथा स नमिराजर्षिनिवृत्तः, इति समाप्तौ ब्रवीमीति प्राग्वत् ॥६२॥ इति चरणनिःप्रकम्पत्वाय नवमं नमिप्रवज्याध्ययनमुक्तम् ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy