SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याध्ययनम् १४५ शक्रः प्राह एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमव्ववी ॥४१॥ व्याख्या-प्राग्वत् । उक्तो यज्ञादिसप्तमः ।७। अष्टमं गार्हस्थ्यमाह-इत्थं जिनधर्मस्थैर्य निश्चित्याथ तस्य प्रव्रज्यादाढ्य परीक्षते घोरासमं चइत्ताणं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ भवाहि मणुयाहिवा ॥४२॥ व्याख्या-घोरो दुरनुष्ठेय आश्रमो गार्हस्थ्यं तस्यैवाल्पसत्त्वैर्दुःकरत्वात् , यत आहुः गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबा: पाखण्डमाश्रिताः ॥१॥ [ ] तं त्यक्त्वा अन्यं कृषिपशुपालादिअशक्तकातरजनाश्रितं प्रार्थयसे आश्रमं प्रव्रज्यारूपं, नेदं क्लीबसत्त्वाचरितं त्वादृशाह, इहैव गृहाश्रमे स्थितः, पोषं धर्मपुष्टिं यो धत्ते, एवंविधोऽष्टम्यादितिथिक्रियमाणव्रतविशेषस्तत्र रतः पौषधरतो भव ! अणुव्रताधुपलक्षणमेतत् । अस्योपादानं पोषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकं । यत आह सिद्धसेनः सर्वेष्वपि तपो योगः, प्रशस्तः किल पर्वसु । अष्टम्यां पञ्चदश्यां च, नियतः पौषधं वसेत् ॥१॥[ ] इति हे मनुजाधिप । अत्र घोरपदेन हेतुराक्षिप्तः, यद्यद् घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः ॥४२।। नमिः प्राह एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमव्ववी ॥४३॥ व्याख्या-प्राग्वत् । मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ । ण सो सुयक्खाय धम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-[मासे मासे]तुः इह अग्रे चैवकारार्थः, यो बालोऽविवेकः कुशा ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy