SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीउत्तराध्ययनदीपिकाटीका - १ , ग्रेणैव दर्भाग्रेण भुङ्क्ते, नत्वङ्गुल्याद्यैः, यद्वा यावत्कुशाग्रेऽवतिष्ठते तावदेव भुङ्क्ते, नाधिकं । स कष्टकृद्वालः, सुष्टु निरवद्यत्वादाख्यातो जिनैरिति स्वाख्यातो धर्मो यस्य चारित्रिण इत्यर्थः, कलां भागं नार्घति नार्हति षोडशीं, षोडशांससमोऽपि न स्यात् किं पुनस्तुल्योऽधिको वा? ततो यदुक्तं यद्यद् घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयमनशनादिवदित्यत्र घोरत्वादित्यनैकान्तिको हेतु:, घोरस्यापि स्वाख्यातधर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वात् । अन्यस्य त्वात्महिंसादिवदन्यथात्वात् । प्रयोगश्चात्र—यत् स्वाख्यातधर्मरूपं न स्यात् तद् घोरमपि धर्मार्थिना नानुष्ठेयं, यथात्मवधादि । न स्वाख्यातधर्मरूपो गृहाश्रमः सावद्यत्वाद्धिसादिवदिति ॥४४॥ शक्रः प्राह एयम निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमव्ववी ॥ ४५ ॥ व्याख्या - प्राग्वत् । उक्तमष्टमं गार्हस्थ्यं ।८। नवमं हिरण्यादिसङ्ग्रहमाह - यतिधर्मे दृढोऽयमिति निश्चित्य दुरन्तोऽयं राग इति तदभावं परीक्षते ॥ ४५ ॥ हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वत्ताणं, तओ गच्छसि खत्तिया ॥४६॥ व्याख्या - हिरण्यं घटितं, स्वर्णमघटितं सुवर्णं, मणयश्चेन्द्रनीलाद्याः मुक्ताश्च मणिमुक्तं, कांस्यं कांस्यभाजनादि, दूष्यं वस्त्राणि, चः अनेकभेदार्थः, वाहनं रथाश्वादि, कोशं च वृद्धिं प्रापय्य, ततः सर्ववस्तु विषयेच्छापूर्ती गच्छ क्षत्रिय ? अयमाशयः - यः साकाङ्क्षः नासौ धर्मानुष्ठानार्हः, यथा मम्मणवणिक्, सकाङ्क्षश्च त्वं, काङ्क्षणीयहिरण्यादिवस्त्वऽपरिपूर्तेः, तथाविधद्रमकवत् ॥४६॥ नमिः प्राह एयम निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमव्ववी ॥४७॥ व्याख्या - प्राग्वत् । सुवण्णरूप्पस्स उ पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥४८॥ व्याख्या–सुवर्णं च रूप्यं च सुवर्णरूप्यं, तस्य, तुः पूत, पर्वता इव पर्वताः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy