________________
१४४
श्रीउत्तराध्ययनदीपिकाटीका-१ शक्रः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नर्मि रायरिसिं, देविंदो इणमव्ववी ॥३७॥ व्याख्या-प्राग्वत् ।
दुर्नमनं षष्ठमुक्तं, सप्तमं यज्ञाद्याह, रागद्वेषत्यागं तस्य निश्चित्याऽर्हद्धर्मस्थैर्यं परीक्षितुमाह
जइत्ता विपुले जण्णे, भोइत्ता समणमाहणे ।।
दत्ता भोच्चा य इट्ठा य, तओ गच्छसि खत्तिया ॥३८॥ व्याख्या-याजयित्वा विपुलान् यज्ञान् , भोजयित्वा श्रमणब्राह्मणान् , श्रमणा निर्ग्रन्थाः, दत्त्वा द्विजादिभ्यो गोभूमिसुवर्णादीनि, भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च राजर्षित्वात् स्वयं यागान् , ततो गच्छ ! क्षत्रिय ! यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय, यथाऽहिंसादिः, तथा चामूनि यागादीनीत्यादिनीत्या हेतुकारणे ॥३८॥ नमिः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमव्ववी ॥३९॥ व्याख्या-प्राग्वत् ॥
जो सहस्सं सहस्साणं, मासे मासे गवं दए ।
तस्सावि संजमो सेओ, अदितस्स वि किंचणं ॥४०॥ व्याख्या-यः सहस्त्रं सहस्राणां दशलक्षात्मकं मासे मासे गवां दद्यात् , तस्यैवंविधदातुरपि यदि कथञ्चिच्चारित्रमोहनीयक्षयोपशमेन संयम आश्रवविरमः स्यात्तदा स एव श्रेयानतिप्रशस्यः, अददतः किञ्चन स्वल्पमपि वस्तु । यद्वा 'तस्सावि'त्ति तस्मादप्युक्तस्वरूपाद्दातुरपि संयमः संयमवान् साधुः श्रेयान् प्रशस्यतरः, एवं संयमं वर्णयता तेन यागादीनां सावधतोक्ता । उक्तं च
षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचना-दूनानि पशुभिस्त्रिभिः ॥१॥[ ] एवं च सावद्यत्वाद्यागादयो न प्राणिप्रीतिकरा इत्यसिद्धो हेतुः, प्रयोगश्च-यत्सावा न तत्प्राणिप्रीतिकरं, यथा हिंसादि, सावधानि च यागादीनीति ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org