SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १४३ नवमं नमिप्रव्रज्याध्ययनम् नराधिप ! वशे आत्मायत्तौ स्थापयित्वा ततो गच्छ ? क्षत्रिय इह यो नृपः सोऽनमन्नृपनमयिता, यथा भरतादिरित्यादिहेतुकारणे ज्ञेये ॥३२।। नमिः प्राह एयमद्वं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमव्ववी ॥३३॥ व्याख्या-प्राग्वत् । जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणेज्ज अप्पाणं, एस से परमो जओ ॥३४॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं सुभटानां सङ्ग्रामे दुर्जयं जयेत् वारयेत् , एकं च जयेदात्मानं पापप्रवृत्तं, एष 'से' तस्य जेतुर्भटदशलक्षजयात्परमो जयः, एतेनात्मन एव दुर्जेयतोक्ता ॥३४॥ तथा च अप्पाणमेव जुज्झाहि, किन्नु जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहइ ॥३५॥ व्याख्या-'अप्पाणमेव'त्ति तृतीयार्थे द्वितीया । आत्मनैव सह युद्ध्यस्व ! स्वदोषानेव निगृहाण ! यद्वा युधेरन्तर्भावितण्यर्थत्वाद् योधयेत्यर्थः स्वकमात्मानमात्मनैव सह । किं नु युद्धेन बाह्यतः, बाह्यं पार्थिवादिमाश्रित्य । आत्मनैवात्मानं जित्वा सुखमेकान्तिकात्यन्तिकमेधते प्राप्नोति ।।३५।। आत्मनि जिते सुखाप्तिमाहपंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जियं ॥३६॥ व्याख्या-'पंचिंदि'त्ति [पञ्चेन्द्रियाणि] क्रोधो, मानो, माया तथैव लोभो दुर्जयो दुरभिभवः, आत्मा मनः, च एवौ पूर्ती । सर्वत्र सूत्रत्वान्नपुंस्त्वं । अतति तानि तान्यध्यवसायस्थानान्तराणीत्यात्मा मनः, सर्वमिन्द्रियादि मिथ्यात्वादि च, आत्मनि जीवे जिते सति वशीभूते सति जितमेव । ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजिगीषुवत् दर्शनात् सिद्धतया प्रत्युक्तम् ॥३६।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy