________________
१४२
श्रीउत्तराध्ययनदीपिकाटीका-१ सधर्मा नृपः स इहाऽधर्मकारिनिग्रहकृत् , यथा भरतादिः, सधर्मनृपस्त्वमित्यादिहेतुकारणे ज्ञेये ॥२८॥ नमिः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमव्ववी ॥२९॥ व्याख्या-प्राग्वत् ।
असई तु मणुस्सेहि, मिच्छादंडो पउंजइ ।।
अकारिणोऽत्थ बज्झंति, मुच्चइ कारओ जणो ॥३०॥ व्याख्या-असकृदनेकधा, तुः एवार्थे, मनुष्यैमिथ्या व्यलीकोऽनपराधिष्वज्ञानगर्वादिभिदण्डो देशत्यागनिग्रहादिः प्रयुज्यते, अकारिण आमोषणाद्यविधायिनोऽत्र नृलोके बध्यन्ते निगडाद्यैः, मुच्यते कारको जनः, आमोषणादिकर्ता, तस्य क्रूरत्वादलभ्यत्वात् । भावतश्चौरो रत्नत्रयविराधनाकर्ता लोकः, तदाऽनेन यदुक्तं प्रागामोषणादीनामुच्छेदेन नगरस्य क्षेमं कृत्वा गच्छेस्तदनेन तेषां ज्ञातुमशक्यतया क्षेमकरणाऽशकत्वमुक्तं । यत्तु 'यः सधर्म' इत्याधुक्तं, तत्राऽज्ञत्वेनाऽमंत्वादिदण्डं (तत्राऽज्ञत्वेनाऽनपराधिनामपि दण्ड) कुर्वन्तां सधर्मनृपत्वं न स्यादित्यसिद्धता हेतोः ॥३०॥ शक्रः प्राह
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमिं रायरिसिं, देविंदो इणमव्ववी ॥३१॥ व्याख्या-प्राग्वत् ।
एवं शक्रेण स्वजनान्तःपुरप्रासादादिनृपधर्मविषयः किमस्य रागोऽस्ति न वेति विमृष्टम् । अथ द्वेषाऽभावपरीक्षायै विजिगीषुतामूलत्वाद् द्वेषस्य जयेच्छामीक्षितुकामः शक्र इदं जगौ ॥३१॥ उक्तः पञ्चमश्चौरनिग्रहः ।५। षष्ठं दुर्नमनृपनमनमाह
जे केइ पत्थिवा तुम्भं, णानमंति नराहिव ।
वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिया ॥३२॥ व्याख्या-ये केचित् सामस्त्येन पार्थिवा भूपाः तुभ्यं नानमन्ति, तान् हे
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org