SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याध्ययनम् १४१ 'वालग्गपोइयाइ'त्ति देश्योक्त्या वलभीश्च कारयित्वा, अन्ये त्वाकाशतलाग्रमध्ये लघुप्रासादमेव 'वालग्गपोइयाइ'वि इति देशीपदार्थमाहुः, ततस्ताश्च क्रीडास्थानभूताः कारयित्वा, ततो गच्छ ? क्षत्रिय । एतेन च यः प्रेक्षावान् , स सति सामर्थ्य प्रासादादिकारयिता, यथा ब्रह्मदत्तादिः, प्रेक्षावांश्च सति सामर्थ्य भवान् , इत्यादिहेतुकारणे सुचिते ॥२४॥ नमिः प्राह__ एयमढे निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमव्ववी ॥२५॥ व्याख्या-प्राग्वात् ॥ संसयं खलु सो कुणई, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुव्वेज्ज सासयं ॥२६॥ व्याख्या-संशयं, खलुः एवकारार्थे, स कुरुते यथा मम कदाचिदेव गमनं भविष्यतीति यो मार्गे कुरुते गृहं, गमननिश्चये तदकरणात् । अहं त्वसंशयितः, सम्यग्दर्शनादीनां मुक्तिहेतुत्वेन मया निश्चितत्वादवाप्तत्वाच्च । अतो यत्रैव गन्तुमिच्छेत्तत्रैव कुर्वीत स्वाश्रयं आत्मनः स्थानं । यद्वा शाश्वतं नित्यं गृहं । ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गस्थितिप्रायमेव । यत्तु जिगमिषितमस्माभिस्तन्मुक्तिपदं, तदाश्रयकृतौ प्रवृत्ता एव वयं, किंपुनर्वक्षि ? ॥२६॥ शक्रः प्राह___ एयमटुं निसामित्ता, हेऊकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमव्ववी ॥२७॥ व्याख्या-प्राग्वत् । उक्ता तुर्या प्रासादोक्तिः ।४। अथ पञ्चमश्चौरनिग्रह: आमोसे लोमहारे य, गंठिभेए य तक्करे । नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिया ॥२८॥ व्याख्या-आ समन्तान्मुष्णन्ति स्तैन्यं कुर्वन्तीत्यामोषास्तान् , लोमहरा ये निस्त्रिंशत्वादात्मघातभीत्या प्रथमं प्राणान् हृत्वैव सर्वस्वं हरन्ति । ग्रन्थिभेदा द्रव्यग्रन्थि-- च्छेदकाः, तस्कराश्चौरास्तान् सर्वान्निवार्य नगरस्य क्षेमं कृत्वा ततो गच्छ हे क्षत्रिय । यः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy