________________
१४०
श्रीउत्तराध्ययनदीपिकाटीका-१ त्रिगुप्तं तिसृभिरट्टालकोच्छूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं, अत एव दुःप्रधर्षकं परैरपात्यं, इत्थं यदुक्तं प्राकारादीन् कारययित्वेति तदुत्तरमुक्तम् ॥२०॥
अथ शस्त्रं वैरिजयं चाह
धणुं परक्कम किच्चा, जीवं च इरियं सया ।
धिइं च केयणं किच्चा, सच्चेणं पलिमंथए ॥२१॥ व्याख्या-धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपमुत्साहं, जीवां च प्रत्यञ्चामीर्यासमिति, शेषसमितीश्च । सदा, धृति धर्मरति केतनं च शृङ्गमयधनुर्मध्ये काष्टमयमुष्टिकात्मकं, तच्च धनुः, सत्येन मनःसत्यादिना, 'पलिमन्थए'त्ति बध्नीयात् ॥२१॥
तवनारायजुत्तेणं, भेत्तूणं कम्मकंचुयं ।
मुणी विगयसंगामो, भवाओ परिमुच्चइ ॥२२॥
व्याख्या-ततस्तपः षड्विधमान्तरं तदेव नाराचोऽयोमयो बाणस्तेन युक्तेन धनुषा भित्वा ज्ञानावरणादिकर्मरूपं कञ्चुकं, कर्मकञ्चुकग्रहणेन चात्मैवोद्धतो वैरीत्युक्तं । वक्ष्यति च "अप्पा मित्तममित्तं च, सुपट्ठियदुपट्ठिए" [ ] त्ति कर्मणस्तु कञ्चकत्वं तद्गतमिथ्यात्वाद्युदयवतः श्रद्धानगरं भञ्जते, आत्मनो दुर्निवारत्वात् , मुनिः कर्मभेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामो भवति, शारीरमानसानि दुःखान्यत्रेति भवात् संसारात् परिमुच्यते । एतेन यदुक्तं 'प्राकारं कारयित्वा' इत्यादि तस्य सिद्धता । श्रद्धापुररक्षणोक्त्या तव तत्त्वाऽज्ञतेति चोक्तं, न च त्वदुक्तदुर्गादिना क्लेशमुक्तमुक्तिः प्राप्या, इतस्तु तदवाप्तिः ॥२२॥ शक्रः प्राह
एयमद्रं निसामित्ता, हेऊकारणचोइओ।
तओ नमी रायरिसी, देविंदो इणमव्ववी ॥२३॥ व्याख्या-प्राग्वत् । उक्ता तृतीया दुर्गाद्युक्तिः ।३। अथ प्रासादोक्तिः, शक्र प्राह
पासाए कारइत्ताणं, वद्धमाणगिहाणि य ।
वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥२४॥ व्याख्या-प्रासादान् कारयित्वा, वर्द्धमानगृहाणि चाऽनेकधा वास्तुविद्योक्तानि ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org