________________
१३८
श्रीउत्तराध्ययनदीपिकाटीका-१ उक्त: कोलाहलः, अथाग्निदाहरक्षाप्रश्नः, यथा
एस अग्गी य वाऊ य, एयं डज्झइ मंदिरं ।
भयवं अंतेउरतेणं, कीस णं नावपिक्खह ? ॥१२॥ व्याख्या-एषोऽध्यक्षदृशोऽग्निर्वातश्च, तथैतत्प्रत्यक्षं दह्यते प्रक्रमाद्वातेरितेनाग्निनैव मन्दिरं तव, हे भगवन् ! अन्तःपुरं अन्तःपुरस्थानं, कस्मात् ? णं अलङ्कारे, नावप्रेक्षसे नावलोकसे ? यद्यादात्मनः स्वं तत्तद्रक्षणीयं, यथा ज्ञानादिः, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वत् ॥१२।। ततो नमिरुवाच
एयमटुं निसामित्ता, हेऊकारणचोइओ ।
तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१३॥ व्याख्या-प्राग्वत् ।
सुहं वसामो जीवामो, जेसिं मो नत्थि किंचणं मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥१४॥ व्याख्या-सुखं यथास्यादेवं वसामस्तिष्ठामो, जीवामः प्राणान् धारयामः, येषां 'मो'ऽस्माकं नास्ति किञ्चनाल्पमपि वस्तु , अनेन प्रागुक्तहेतोरसिद्धत्वं, तत्वतो ज्ञानादिभ्योऽन्यस्य सर्वस्याऽस्वीयत्वात् , किञ्चिदन्तःपुरादि न मत्सत्कं । ततो मिथिलायां दह्यमानायां न मे दह्यति किञ्चन ॥१४॥ यथा
चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुणो ।
पियं न विज्जए किंचि, अप्पियं पि ण विज्जए ॥१५॥
व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृषिपशुपाल्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते, किञ्चिदल्पमपि, अप्रियमपि न विद्यते, प्रियाऽप्रियविभागास्तित्वे सति प्रियापुत्रादित्यागं न कुर्यादेव, तयोरेवातिस्नेहहेतुत्वात् । एतेन यदुक्तं नास्ति किञ्चन तत् स्थापितं । तत्स्वीयत्वं च पुत्राद्यत्यागतो रागतः स्यात् , रागश्च निषिद्धः ॥१५॥ एवं कथं सुखेन वसनं जीवनं चेत्याह
बहुं खु मुणिणो भदं, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org