________________
नवमं नमिप्रव्रज्याध्ययनम्
तत्र
वाएण हीरमाणंमि, चेइयंमि मणोरमे ।
दुहिया असरणा अत्ता, एए कंदंति भो खगा ॥१०॥
व्याख्या-वातेन ह्रियमाणे इतस्तः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति । चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यश्चित्यः, स एव चैत्यस्तस्मिन् । कोऽर्थः ? बद्धपीठके उपरि चोच्छ्रितपताके मनोरमे रम्ये वृक्षे । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिताः, अत एव आर्त्ताः पीडिताः, एते प्रत्यक्षाः क्रन्दन्ति, भोः, खगाः पक्षिणाः, इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत्स्वजनाक्रन्दनमुक्तं तत्खगक्रन्दनप्रायं । यतो ममात्मा वृक्षः कियत् कालं सहस्थितत्वेन, पश्चाच्च स्वस्वगतिगामितया दुमाश्रित्य खगोपमाः स्वजनाद्याः, उक्तं हि
यद् द्रुमे महति पक्षिगणा विचित्रा:, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते ॥ तद्वज्जगत्यसकृदेव कुटुम्बिजीवाः,
काले समेत्य पुनरेव दिशो भजन्ते ॥१॥ [ ]
ततश्चाक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनोच्यमानमसिद्धं स्वजनादयश्च वातेर्यमाणद्रुमविश्लेषिखगा इव स्वस्वकार्यहानिमेव शोचन्तः क्रन्दन्ति, न तु दीक्षां । ततस्तत्क्रन्दनं तत्कार्यहेतुकमेव, न मद्दीक्षाहेतुकं । यतः
आत्मार्थं सीदमानं स्वजनपरिजनो रौति हाहारवार्त्ती,
भार्या चात्मोपभोगं गृहविभवसुखं स्वं च कार्यं च यस्याः । क्रन्दन्त्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं,
यो वान्यस्त किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ [ ] एवं च त्वदुक्ते हेतुकारणे असिद्धे कूटे एव ॥ १०॥
ततश्च
१३७
एयम निसामित्ता, हेऊकारणचोइओ ।
तओ नमिं रायरिसिं, देविंदो इणमव्ववी ॥ ११ ॥
व्याख्या - एतमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धोऽयं भवदुक्को हेतु:, कारणं च तवोक्तमिति प्रेरितो हेतुकारणचोदितो निषिद्धः, ततो नमिं राजर्षि देवेन्द्र
इदमब्रवीत् ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org