SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३६ श्रीउत्तराध्ययनदीपिकाटीका-१ कोलाहलप्रश्नः १ अग्निदाहरक्षाप्रश्नः २ दुर्गादिकारणोक्तिः ३ प्रासादकारणोक्तिः ४ चौरनिग्रहोक्तिः ५ दुर्नमनृपनमनोक्तिः ६ यज्ञादिकरणोक्तिः ७ गृहाश्रमस्थापनं ८ हिरण्यादिसङ्ग्रहोक्तिः ९ भोगत्यागोक्तिः १० एते चाक्षेपा दश क्रमेण कृताः । तत्राद्यप्रश्नमाह किन्नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु य ॥७॥ व्याख्या-किं प्रश्ने, नुः वितर्के, भोः आमन्त्रणे, अद्य मिथिलायां कोलाहलकेन बहुकलकलेन सङ्कला व्याप्ताः श्रूयन्ते, दारुणा हृदुद्वेगकरा विलपिताः क्रन्दिताद्याः शब्दाः प्रासादेषु भूपसम्बन्धिषु सप्तभौमादिषु गृहेषु तदितरेषु , चात् त्रिकचतुष्कचत्वरादिषु ॥७॥ तत: एयमढे निसामित्ता, हेऊकारणचोइओ । तओ णमी रायरिसी, देविंदं इणमव्ववी ॥८॥ व्याख्या-एनमर्थं अर्थवाचिध्वनि निशम्याकर्ण्य, हेतुः पञ्चावयववाक्यरूपः, कारणं अन्यथाऽनुपपत्तिमात्रं, ताभ्यां चोदितः प्रेरितः पृष्टः, तथाहि-अनर्ह तव धर्माथिनो निःक्रमणं, इति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वाद् इति हेतुः, यद्यदेवं तत्तद्धर्माथिनोऽनहँ, प्राणिहिंसादिवदिति दृष्टान्तः, तथा चेदं त्वन्नि:क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दहेतुत्वादनहँ तव नि:क्रमणमिति निगमनमिति पञ्चावयवं वाक्यं । इह हेतुः शेषाऽवयवहीनं आक्रन्दादिदारुणशब्दहेतुस्तन्निःक्रमणाऽनर्हत्वं विना नोत्पद्यते इति कारणं, अनयोस्तु पृथगुक्तिः शेषभेदतः साधनवाक्यवैचित्र्यज्ञप्त्यै, ततः प्रश्नानन्तरं नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् ॥८॥ यथा मिहिलाए चेइए वच्छे, सीयच्छाये मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥९॥ व्याख्या-मिथिलायां पुरि, चयनं चितिः पत्रपुष्पादिचयस्तत्र साधु चित्यं, तदेव स्वार्थे णि चैत्यमुद्यानं, तस्मिन् , 'वच्छे'त्ति सूत्रत्वादृक्षैः शीतच्छाये, मनो रमतेऽस्मिन्निति मनोरमे मनोरमाख्ये, पत्रपुष्पफलोपेते, बहूनां खगादीनां बहुगुणो फलाद्यैरुपकारिणि सदा ।।९।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy