SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ नवमं नमिप्रव्रज्याध्ययनम् ततश्च मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिक्खितो, एगंतमहिट्ठिओ भयवं ॥४॥ व्याख्या - मिथिला नगरीं सपुरजनपदां, सह नरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तां, बलं हस्त्यश्वादिचतुरङ्गं, अवरोधं चान्तःपुरं, परिजनं सर्वं त्यक्त्वाऽभिनिःक्रान्तः प्रव्रजितः । एकोऽद्वितीयः कर्मणामन्तो यस्मिन्नित्येकान्तो मोक्षस्तमधिष्ठितस्तदुपायसम्यग्दर्शनाद्यासेवनात् आश्रितः, यद्वा एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु एकोऽहं नास्ति मे कश्चिन्, न चाहमपि कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥ [ ] एक एवाहमित्यन्तो निश्चयस्तमाश्रितः, भगवान् धैर्यवान् श्रुतवान् ॥४॥ तदा च कोलाहलगभूयं, आसी मिहिलाए पव्वयंतंमि । तइया रायरिसिंमि, नमिम्मि अभिनिक्खमंतंमि ॥५॥ व्याख्या- कोलाहलः क्रन्दितादिकलकलः स एव कोलाहलकः, स भूतो जातो यस्मिन् तत्कोलाहलकभूतं सर्वं विहारारामादि, तदाऽासीदभूत् मिथिलायां, प्रव्रजति दीक्षां गृह्णाति । राज्यावस्थायामपि ऋषिरिव ऋषिः क्रोधादिषड्वर्गजयात्, तथा च राजनीति: कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः ॥१॥ [] तस्मिन् राजर्षौ नौ गृहात् कषायादिभ्यो वा निःक्रामति निर्गच्छति ॥५॥ पुनराह - अब्भुट्ठियं रायरिसिं पव्वज्जाद्वाणमुत्तमं । सक्को माहणरूवेण इमं वयणमव्ववी ॥६॥ १३५ , Jain Education International 2010_02 व्याख्या - अभ्युत्थितं अभ्युद्यतं राजर्षि, प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं, तत्प्रतीति, उत्तमं श्रेष्ठं । शक्रो ब्राह्मणस्य रूपेण वेषेणागत्य इदं वक्ष्यमाणं वचनमब्रवीत् ॥६॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy