________________
१३४
श्रीउत्तराध्ययनदीपिकाटीका-१ दोन्नि वि नमी विदेहा, राज्जाइं पयहिऊण पव्वइया । एगो नमि तित्थयरो, एगो पत्तेयबुद्धो य ॥१॥ [ उत्त. नि. / गा. २६७] जो सो नमितित्थयरो, सो साहस्सिय परिवुडो भगवं । गंथमवहाय पव्वए, पुत्तं रज्जे ठविऊण ॥२॥ [ उत्त. नि. / गा. २६८] बिइओ वि नमीराया, रज्जं चइऊण गुणगणसमग्गं ।
गंथमवहाय पव्वए, अहिगारो अत्थ बीएणं ॥३॥ [उत्त. नि. / गा. २६९ ] इत्थं सम्प्रदायमुक्त्वा सूत्रार्थमाह
चइऊण देवलोगाओ, उववण्णो माणुसंमि लोगंमि ।
उवसंतमोहणिज्जो, सरई पोराणियं जाइं ॥१॥ व्याख्या-च्युत्वा देवलोकात् उत्पन्नो मानुषे लोके उपशान्तमनुदय प्राप्त मोहनीयं दर्शनमोहनीयं यस्य स उपशान्तमोहनीयः, नमिर्नृपः स्मरति पौराणिकी चिरन्तनी जातिं प्राग्जन्मेत्यर्थः ॥१॥
तत:
जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे धम्मे ।
पुत्तं ठवित्तु रज्जे, अभिनिक्खमई नमी राया ॥२॥ व्याख्या-जातिं स्मृत्वा भगवान् , भगवच्छब्दस्य बह्वर्थत्वेऽपीह भगो बुद्धिर्यस्यास्तीति भगवान् , 'सह'त्ति स्वयमात्मनैव सम्बुद्धः सम्यग् ज्ञाततत्त्वः, नान्येन बोधित इत्यर्थः, अथवाऽार्षत्वात्सहसा जातिस्मृतेरनु झगित्येव बुद्धः, अनुत्तरे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनि:क्रामति गृहपर्यायान्निर्गच्छति तदा काले नमी राजा ॥२॥ कथमित्याह
सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए ।
भुंजित्तु णमी राया, बुद्धो भोए परिच्चयइ ॥३॥ व्याख्या-स नमिर्देवलोकगैः सदृशान् देवलोकसदृशान् , वरान्तःपुरगतः, प्राकृतत्वाव्यत्ययः, कोऽपि सुबन्धुवत् च्युतोऽपि भोगान् भोक्तुं कुतोऽपि न शक्नोतीत्याह, वरान् भोगान् भुक्त्वा नमी राजा बुद्धो ज्ञाततत्वो भोगान् परित्यजति । पुनर्भोगग्रहणं विस्मरणशीला अनुग्राह्या एवेति ज्ञप्त्यै ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org