________________
नवमं नमिप्रव्रज्याध्ययनम्
१३३ सहस्रकन्या उद्वाहितः, पद्मरथो नमौ विदेहराज्यं न्यस्य प्रव्रज्य ज्ञानात्सिद्धः, अन्यदा नमिहस्ती स्तम्भं भक्त्वा विन्ध्याटवीन् प्रति चलितः, सुदर्शनपुरासन्नं गच्छन् चन्द्रयशोनरैर्बाह्यक्रीडायै गतैधृत्वा स पुरे प्रावेशि । नमिना चरास्यात्तद् ज्ञात्वा चन्द्रयशसे दूतः, प्रेषितो मार्गितश्च हस्ती, चन्द्रोऽवक् रत्नानि न कस्यापि नामाङ्कितानि, बलाधिक्यस्यै स्युः, एवमसन्मानितोऽपूजितो दूतः पश्चाद्वलितः ।
अथ नमिरपि सर्वबलेन चन्द्रयशसं प्रत्यागात् । चन्द्रोऽपि निजसैन्ययुतस्तत्सन्मुखं गन्तुं लग्नः, परमशकुनैर्निवारितो मन्त्र्युक्त्या तत्रैव गोपुरद्वाराणि दत्वा स्थितः, नमिरेत्य सर्वं सुदर्शनपुरमरौत्सीत् । इतो मिथिलास्था सुव्रता जनोदन्तेन तद्विग्रहं श्रुत्वा जनक्षयवारणाय तयोरुपशमाय च महत्तरामनुज्ञाप्य साध्वीयुता सुदर्शनपुरे नमिसैन्ये गत्वा नमिमवन्दापयत् । नमिरपि तस्या आसनं दत्वा भुव्युपविष्टः, साध्व्याऽर्हद्धर्म उक्तः, उपदेशान्ते चोक्तं असारा राज्यश्रीः, दुःखं विषयसुखं, पापकार्यान्नियमान्नरकगतिः, अतो ज्येष्ठभ्रात्रा सह सङ्ग्रामात्त्वं निवर्त्तस्व ? नमिरूचे कथमसौ मे भ्राता ? ततः साध्व्या यथास्थमुक्तम् । स तथापि न निवृत्तः, अथ साध्वी पुरान्तर्गता नृपौकः, परिवारेण चोपलक्षिता, चन्द्रेणापि नत्वासनं मुक्तम् । क्ष्मायां निविष्टो भूपो मातरमपृच्छत् , हे आर्ये ! कथमिदं दुष्करं व्रतमात्तं ? तदा तया यथास्थवृत्तान्त उक्तः, पुनस्तेन पृष्टं क्व मे स सहोदरो गर्भस्थः ? साध्व्योक्तं यस्त्वां रुद्ध्वा स्थितोऽस्ति । ततश्चन्द्रो हर्षाद्वहिनिर्गत्य नमिमिलनायागतः, नमिरपि सन्मुखमेतः, चन्द्राहूंयोश्च पतितः, चन्द्रेण तं पुर्यां नीत्वा राज्यं च दत्वा प्रव्रज्यात्ता । अथ नमिट्टै राज्ये शशास।
एवं विदेहदेशे मिथिलायां नमे राज्ञो राज्यं कुर्वतोऽन्यदाङ्गे दाहोऽभूत् । वैद्यैः कैरपि नाशमत् । षण्मासा जाताः, असाध्यो व्याधिरयमिति वैद्योक्ते घृष्टचन्दनरसभृतकुण्डिकान्तः क्षणं दाहज्वरशान्त्यै स राजाऽस्थात् । अष्टोत्तरसहस्रं राज्ञीनां भक्त्या स्वयं युगपच्चन्दनानि घर्षति । महास्तासां वलयखलत्कारध्वनी राज्ञः कर्णकटुर्बभूव । इति ता एकैकं वलयं मङ्गलहेतवे स्थापयित्वाऽन्यानि तान्युत्तार्य चन्दनमघर्षयन् । राज्ञा तद् ज्ञात्वा परमार्थोत्कण्ठितेनाऽचिन्ति नूनं बहूनां सङ्गमे दोषाः, नैकस्य दोषः, यथा बहूनि वलयान्यास्फाल्यास्फाल्य कलकलन्ति तथा मिलिता बहवः कलहायन्ते, अतोऽस्माद्रोगान्मुक्तः प्रव्रज्यैव मे शरणं । तदा च कार्तिकपूर्णिमासीत् , अथैवं ध्यायन्नेवाप्तनिद्रः प्रातःप्रायायां निशि स स्वप्नेऽपश्यन्मेर्वारूढं स्वं । प्रातर्नान्दीतूर्यनिर्घोषैः प्रबुद्धो हृष्टस्तुष्टश्च स दध्यौ मयाद्य प्रधानं स्वप्नं दृष्टं । क्वापीदृग्गिरिदृष्टपूर्वोऽस्ति मे । तावत्तेन जातिः स्मृता । पूर्वभवेऽहं श्रामण्यं लब्ध्वा सप्तमे शुक्रदेवलोके पुष्पोत्तरविमाने देवत्वेनोत्पन्नो जिनमहिमादिष्वागतो मेरुं दृष्टवानिति सम्बुद्धः प्रव्रजितः, अत्र नियुक्ति:
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org