________________
१३२
श्रीउत्तराध्ययनदीपिकाटीका-१ एवं साधौ वदति मणिस्तम्भलम्बितमुक्तमालं सतोरणं किङ्किणीजालरवमुखरं विमानमेकं नभोङ्गणे प्राप्तम् । ततः सुर एक उत्तीर्य त्रिःप्रदक्षिणय्य मदनरेखांयोः पतित्वोपविष्टः, तदा मणिप्रभस्तमविनीतं दृष्ट्वोचे हे देव ! न्यायाः सुरनरेशैः स्थापितास्ते च यदि तैरेव लुप्यन्ते तदा को दोषोऽन्येषां ? यत्सर्वगुणर्षि मुक्त्वाऽादौ श्राविकां त्वमनमः, सुरोऽवक् सत्यं परमियं मे धर्मगुरुः, तेनोक्तं कथं ? ततः स स्वीयं युगबाहुवृत्तान्तमुवाच । एवमेषा मे गुरुस्थाने सम्यक्त्वादिधर्मदत्वात् । यतः
संयतो वा गृही वापि, शद्धधर्मे नियोजयेत् ।
स गुरुस्तस्य कोट्या-पकारैर्नाऽनृणीयते ॥१॥[ ] तत् श्रुत्वा खेटोऽर्हद्धर्मसामर्थ्य मेने । अथ स सुरो मुनि नत्वा मदनरेखामचे हे साधर्मिणि किं त्वदिष्टं कुर्वे ! तयोक्तं मम सर्वदुःखक्षयं शिवमिष्टं, परं प्रथमं मिथिलायां मां नय ? यथा पुत्रस्यास्यं दृष्ट्वा परलोकं साधये । तदा सुरेण सा मिथिलायां निन्ये । तत्र श्रीमल्लिनम्योर्जन्मदीक्षाभूरस्ति ।
अथ सा चैत्यानि नत्वा साध्व्युपाश्रये गता, देवेन सह च साध्वीनत्वोपविष्टा । साध्व्यो धर्ममूचुः
यथा निशि खगानां स्याद् , योगोऽध्वन्यध्वयायिनां । तथा स्वजनसंयोगो, वियोगसहितोऽङ्गिनां ॥१॥ पितृमातृभ्रातृभार्या-स्वसृपुत्रादिभावतः । सर्वे जीवास्तु सर्वेषा, जाता लोके ह्यनन्तशः ॥२॥ एतेनैषां प्रतिबन्धो, न कार्यो हि मनीषिणा । प्रतिबन्धाद्भवेद्दुःख-मत्रामुत्र शरीरिणां ॥३॥ भवकोटीषु दुःप्राप्यं, लब्ध्वा नरभवं बुधैः ।
अर्हद्धर्मो महाशर्म-कार्मणं क्रियते लघु ॥४॥ देशनान्ते तां सुरोऽवक् यामो नृपसौधं पश्यामश्च सुतं । मदनोचे अथालं स्नेहेन । यतः
सर्वात्मानो ममाभूवन्, स्वजना अहितास्तथा ।
एकैकस्यात्मनस्तत्को, मोहो बन्धुषु चिन्त्यते ॥१॥[ ] इति साध्वीपार्वे सा प्राव्राजीत् । सुरोऽपि साध्वीर्मदनां च नत्वा स्वर्गतः, सुव्रताख्या सा साध्वी तपःक्रियापरा व्यहरत् । अथ तस्य बालस्य पद्मरथेन राज्ञा विपक्षराज्ञां नमनकारित्वान्नमिरिति नाम दत्तं । स बालोऽष्टमे वर्षे सर्वकलाज्ञो जज्ञे, यौवने चाष्टोत्तर
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org