________________
१३०
श्रीउत्तराध्ययनदीपिकाटीका-१ मच्छिनत् । तेन स किञ्चिल्लग्नत्रुटितशीर्षोऽभूत् । मदनरेखया पूत्कारः कृतः, मणिरथोऽवक् मद्धस्तात् खड्गं पतितं । यामिकैर्मणिरथचेष्टितं ज्ञात्वा युगबाहुसुतचन्द्रयसोऽग्रे कथितं । चन्द्रयशसा वैद्यानाकार्योपचारः कारितः, परं स निश्चेतनीभूतः तस्याङ्गानि रुधिरलिप्तानि जातानि । अथ मदनरेखा तस्य मरणावस्थां ज्ञात्वा कर्णमूले स्थित्वा मधुरस्वरमूचे । भो महाभागः सर्वात्मसु मैत्री कुरु ? कस्योपरि द्वेषं मा कार्षीः, प्रपद्यस्व चतुःशरणं, गर्ह स्वदुश्चरितं, प्राक्कर्मवशेन प्राग्वैरेण चेयं ते दशा जाता ।
जं जेण कयं कम्मं, अण्णभवे इह भवे य सत्तेणं ।
तं तेण वेइयव्वं, निमित्तमित्तं परो होइ ॥१॥ [ ] ततो गृहाण परत्र पाथेयम् ।
सर्वज्ञं प्रतिपद्यस्व, तत्वानि श्रद्धयानय । सुसाधून् गुरुभावेन, स्वीकुर्वऽव्रतनिग्रहं ॥१॥ पञ्चधा कुरु जन्मान्तं, त्रिविधं त्रिविधेन च । प्रतिक्रमाष्टादशभ्यः, पापस्थानेभ्य उद्यतः ॥२॥ अनित्यं भवभावं च, नमस्कारपर: स्मर । त्यज स्वजनसङ्गं य-न्न मातृजनकादयः ॥३॥ शरणं ते जिनाः सिद्धाः, शरणं गतकल्मषाः ।
मुनयः शमभाजश्च, शरणं धर्म आर्हतः ॥४॥ एतत्सर्वं शिरोञ्जलिर्युगबाहुः प्रपद्य सुध्यानान्मृतो ब्रह्मलोके सामानिकः सुरोऽभूत् । मणिरथस्तस्यां निश्येवाऽहिदष्टस्तुर्यनरकं गतः, मन्त्रिभिश्चन्द्रयशा राजाऽस्थापि । अथ भर्तरि मृते मदनरेखा, एष मच्छीलं भक्ष्यति मत्पुत्रं च हनिष्यतीति ध्यात्वाऽर्द्धरात्रौ उद्यानात् पूर्वां दिशं गत्वा महाटवीं प्राप्ता, मध्याह्न फलादिभिः प्राणवृत्तिं कृत्वाऽध्वखिन्ना कदलीगृहे सुप्ता, निशि च तया साकारं प्रत्याख्यानं कृतं । तत्र व्याघ्रा घुरक्खयन्ति, सिंहा गर्जन्ति, वराहा घुघुरयन्ति, शिवाः फेत्कुर्वन्ति । एवं भीमारण्ये नमस्कारं परावर्तयन्त्यास्तस्या अर्द्धरात्रे उदरवेदनया कृच्छ्रात् पुत्रोऽभूत् । प्राता रत्नकम्बलयुगबाहुनामाङ्कितग्रीवाभरणयुतं पुत्रं कदलीगृहे मुक्त्वा अङ्गशुद्ध्यै सा सरः प्रति गता । इतो जलात् करी धावितः, शुण्डयोत्पाट्य च तां नभसि प्रोच्छालितवान् ।
तावद् देवयोगेन नन्दीश्वरं याता विद्याधरेशेन सा दृष्टा, नीता च वैताढ्यं, तत्रोक्तः स तयाऽहं वने कदलीगृहेऽद्य सुतमजीजनम् , स बालःश्वापदैर्हनिष्यते, अनाहारो वा
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org