________________
नवमं नमिप्रव्रज्याध्ययनम् ॥
निर्लोभश्चन्द्रादिपूज्यः स्यादिति नवमं नमिप्रव्रज्याध्ययनमाह
इह यद्यपि नमेरेव प्रव्रज्या प्रक्रान्ता, तथापि यथायं प्रत्येकबुद्धस्तथान्येऽपि करकण्डवाद्यास्त्रयस्तत्समकालसुरलोकच्युतिप्रव्रज्याज्ञानोत्पत्तिसिद्धिगतिभाजो जाताः, अतः प्रसङ्गतोऽत्र तद्वृत्तानि स्वयं ज्ञेयानि, अत्र तु नमिचरित्रलेश:
___ इह जम्बूद्वीपे भरतेऽवन्तीदेशे सुदर्शनपुरे मणिरथो राजा, तस्य सहोदरो युगबाहुर्युवराट् , युगबाहोर्मदनरेखा प्रिया सुश्राविकाऽतिरूपलावण्या, पुत्रश्च चन्द्रयशाः, अन्यदा मणिरथो मदनरेखां दृष्ट्वा जातानुरागस्तस्या वश्यतार्थं पुष्पवस्त्रादि ताम्बूलालङ्काराद्यं च प्रेषीत् , मदनरेखापि प्राञ्जलिपूर्वकं तदलात् ।
__ अथ मणिरथेन मदनरेखोक्ता चेन्मां त्वमिच्छसि तदाहं त्वां राज्यस्वामिनी कुर्वे । तयोक्तं नूनं त्वं क्लीबोऽसि, यल्लघुभ्रातृवधूं निजपुत्रीस्थानीयां मामिच्छसि । यतः-सत्पुरुषा वरं म्रियन्ते, नत्विहपरलोकविरुद्धं सेवन्ते, परस्त्रीसेवया नरकगतिरेव, ततो दुष्टभाव त्यज ! अनाचारं च मा कृथाः ! राजा तूष्णीं स्थितः, युगबाहौ सत्येषा न मस्यते, इत्येनं प्रस्तावे हन्मीति स दध्यौ । अथैकदा मदनरेखा चन्द्रं स्वप्ने दृष्ट्वा युगबाहुमूचे, सोऽवक् पृथ्वीशृङ्गारो जीवलोकप्रियो द्वितीयः सुतस्ते भावी । तृतीयमासे तस्या अर्हन्मुनिभक्त्यर्हद्भवकथा श्रवणादिरूपो दोहदोऽभवत् , युगबाहुना च सोऽपूरि । अथ वसन्ते युगबाहुमदनरेखया सह क्रीडायै गत उद्याने । तत्र च रात्रिः पतिता । तदा कदलीगृहे मदनरेखायुगबाहू सुप्तौ, चतुदिक्षु च यामिकाः स्थिताः, मणिरथो राजा दध्यौ एष युगबाहुमारणावसरः, यतो युगबाहुः पुराबहिः स्तोकतन्त्रोऽस्ति, रात्रिरपि तमोघोरा स्थानं च काननमस्ति ।
__इति विचार्य मणिरथराजा उद्यतासिः सौधान्निःसृत्य मार्गे आयात् । कार्याऽकार्यमविचार्य जनापवादं त्यक्त्वा परलोकभयं च मुक्त्वा स तीक्ष्णासिना युगबाहुकन्धर
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org