________________
१२७
अष्टमं कापिलीयाध्ययनम् लोभादेते एवं कुर्युरतो लोभातस्य दुःपूरतामाह
कसिणं पि जो इमं लोगं, पडिपुन्नं दलिज्ज इगस्स ।
तेणावि से न संतुस्से, इइ दुप्पूरिए इमे आया ॥१६॥ व्याख्या-कृत्स्नं पूर्णमपि इन्द्रादिः इमं प्रत्यक्षं लोकं जगत् परिपूर्णं हिरण्यधनधान्यादिभृतं दद्यात् , किं बहुभ्यः ? इत्याह-एकस्मै कस्मैचित् कथञ्चिदाराधकाय, तेनापि स न सन्तुष्टेत् न हृष्येत् , एतावतापि न तृप्तिः स्यात् । इत्येवं कृच्छ्रेणापि पूरयितुमशक्यो दुःपूरकोऽयमात्मा । एवं यद्येकः सर्वलोकदानेन न पूर्यते, तदा बहूनां तृप्तिः कथं कर्तुं शक्या !! ॥१६॥ असन्तोषे स्वविदितं हेतुमाह
जहा लाभो तहा लोभो, लाभा लोभो पवड्डइ ।
दोमासकयं कज्जं, कोडीए वि न निट्ठियं ॥१७॥ व्याख्या-यथा लाभोऽर्थाप्तिस्तथा लोभः स्यात् , लाभाल्लोभः प्रवर्द्धते, इतिकथनाद्यथातथेत्यत्र वीप्सा ज्ञेया । द्वाभ्यां माषाभ्यां पञ्चरत्तिकमानाभ्यां कृतं कर्त्तव्यं कार्य दास्याः पुष्पताम्बूलमूल्यं स्वर्णकोट्यापि न निष्ठितं, उत्तरोत्तरविशेषवाञ्छतः ॥१७|| तदनिष्ठितिः स्त्रीतो जातेति तत्त्यागमाह
नो रक्खसीसु गिज्झिज्जा, गंडवच्छासु णेगचित्तासु ।
जाओ पुरिसं पलोभित्ता, खेल्लंति जहा व दासेहिं ॥१८॥ व्याख्या-नो नैव राक्षसीष्विव राक्षसिषु ज्ञानादिजीवितापहारात् स्त्रीषु गृद्ध्येत् काङ्क्षावान् स्यात् , 'गंडवच्छासु' गण्डं गईं तन्निभे मांसपिण्डतया गलत्पूतिरुधिरार्द्रतया च गण्डे कुचौ वक्षसि यासां तासु स्त्रीषु , वैराग्योत्पादनार्थं चेत्थमुक्तं । अनेकान्यनेकसङ्ख्यानि चञ्चलतया चित्तानि यासां तासु अनेकचित्तासु ।
हृद्यन्यद्वाच्यन्यत्, कायेऽप्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ।
अन्यत्तव मम चान्यत्, स्त्रीणां सर्वं किमप्यन्यत् ॥१॥[ ] याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं, त्वमेव च मे प्रीतिकृदित्यादिकाभिर्वाग्भिर्विप्रतार्य क्रीडन्ति, वाशब्दस्य एवार्थत्वात् यथैव दासैरेहि ! गच्छ ! वेत्यादिक्रीडाभिर्विलसन्ति ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org