________________
१२६
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-ये लक्षणं शुभाऽशुभसूचकं, पुरुषस्त्रीलक्षणादि, तद्वाची ग्रन्थोऽपि लक्षणं, एवं सर्वत्र ज्ञेयम् ।
अस्थिष्वर्थाः सुखं मासं, त्वचि भोगा: स्त्रियोऽक्षिषु ।
गतौ यानं स्वरे चाज्ञा, सर्वं सत्वे प्रतिष्ठितम् ॥१॥[ ] इत्यादि । स्वप्नं यथा
अलङ्कृतानां द्रव्याणां, वाजिवारणयोस्तथा । वृषभस्य च शुक्लस्य, दर्शने प्राप्यते यशः ॥२॥ [ ] मूत्रं वा कुरुते स्वप्ने, पुरीषमथ लोहितं ।
प्रतिबुद्ध्येत सोऽर्थस्य, नाशनं लभते नरः ॥३॥ [ ] इत्यादि । अविद्यां "सिरप्फुरणे किर रज्ज"[ ] इत्यादिकां प्रणवमायाबीजादिवर्णविन्यासात्मिकां. वा यद्वा अङ्गानि अङ्गविद्योक्तानि भौमान्तरिक्षादीनि, विद्याश्च हिलिहिलिमातङ्गिनीस्वाहेत्याद्या विद्यानुवादप्रसिद्धा ये प्रयुञ्जन्ते व्यापारयन्ति, च एवार्थे, 'न हु' नैव ते श्रमणा उच्यन्ते, पुष्टालम्बनं विना एतद्व्यापारणे निषेधः, एवमार्यैराचार्यैर्वा आख्यातम् ||१३|| एषां फलमाह
इह जीवियं अनियमित्ता, पब्भट्ठा समाहिजोगेहिं ।
ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए ॥१४॥ व्याख्या-इह जन्मनि जीवितं संयमजीवितमनियम्य द्वादशधा तपोनिधानादिनाऽनियन्त्र्य, प्रभ्रष्टाः, समाधिश्चित्तस्वास्थ्यं, तेन प्रधाना योगा शुभमनोवाक्कायव्यापारास्तेभ्यो, यद्वा समाधिः शुभचित्तैकाग्र्यं, योगाश्च प्रत्युपेक्षणादयो व्यापारास्तेभ्यः, ते, कामभोगेषु रसोऽत्यन्तासक्तिरूपस्तेन गृद्धा असुरसम्बन्धिकाये आसुरे काये उत्पद्यन्ते । अयमर्थः-एवंविधाः किञ्चिदनुष्ठानं कुर्वन्तोऽपि असुरेष्वेवोत्पद्यन्ते । रसाः शृङ्गाराद्याः मधुराद्या वा, भोगान्तर्गतत्वेऽपि रसानां पृथगादानमतिगा_हेतुज्ञप्त्यै ॥१४॥ ततोऽपि फलमाह
तत्तो वि य उवट्टित्ता, संसारं बहुं अणुपरियÉति ।
बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लहा तेसिं ॥१५॥ व्याख्या-ततोऽप्यसुरनिकायदुद्वत्य संसारं बहुं चतुरशीतिलक्षयोन्यात्मकं अनुपरियन्ति पर्यटन्ति (पाठान्तरे-अनुचरन्ति) बहुकर्मलेपलिप्तानां तेषां बोधिः प्रेत्यार्हद्धर्माप्तिः सुदुर्लभाऽतिदुरापा यत्र संसारे स्यात् ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org