________________
अष्टमं कापिलीयाध्ययनम्
१२५ उक्ता मूलगुणाः, अथोत्तरगुणा वाच्याः, तेष्वप्येषणासमितिः प्रधानेति तामाह
सुद्धेसणाओ नच्चा णं, तत्थ ठवेज्ज भिक्खू अप्पाणं ।
जायाए घासमेसिज्जा, रसगिद्धे ण सिया भिक्खाए ॥११॥ व्याख्या-शुद्धिमत्यो निर्दोषाः शुद्धषणाः सप्त संसृष्टाद्याः, ताश्च
संसठ्ठमसंसट्ठा, उद्धड तह अप्पलेवडा चेव ।
उग्गहिया पग्गहिया, उज्झियधम्मा य सत्तमिया ॥१॥ [सं.प्र.गा.७८३ ] ज्ञात्वा तत्रैषणासु स्थापयेन्निवेशयेद्भिक्षुरात्मानं । जिनकल्पे पञ्च शुद्धैषणा उदाहृताः स्थविरकल्पे पुर: पश्चात्कर्महीनाः सप्त । यात्रायै संयमनिर्वाहार्थं ग्रासमेषयेत् ।
जह सगडक्खोवंगो, कीड़ भरवहणकारणा न वरं ।
तह गुणभरवहणत्थं, आहारो बंभयारीणां ॥१॥ [गा.स./३५६ ] शुद्धमादाय ग्रासविधिमाह-रसेषु स्निग्धमधुरादिषु गृद्धो न स्याद्भिक्षादो भिक्षाको वा, अनेनाऽरागोऽद्वेषश्चायमुक्तस्ततश्चाऽरक्तद्विष्टो भुञ्जीत ||११|| रसाऽगृद्धविधिमाह
पंताणि चेव सेविज्जा, सीय पिंडं पुराणकुम्मासं ।
अदु बुक्कसं पुलागं वा, जवणट्ठाए निसेवए मंथु ॥१२॥ व्याख्या-प्रान्तानि नीरसान्यन्नपानानि, चात् अन्तानि च, एव अवधारणे, सेवेतैव। न त्वसाराणीति परिष्ठापयेत् । गच्छनिर्गतस्तु प्रान्तानि चैव सेवेत, तस्य तादृग्ग्रहणानुज्ञानात् , प्रान्तान्येवाह-शीतं शीतलं, पिण्डमाहारं, शीतोऽपि शाल्यादिपिण्ड: सरसः स्यादत आह-पुराणान् बहुवर्षधृतान् कुल्माषान् राजमाषान् , एते पुराणाः पूतयो नीरसाश्च स्युः, एवं पुराणमुद्गादीनपि, 'अदु' इत्यथवा 'बुक्कसं' मुद्गमाषादि नखिकानिष्पन्नमन्नं निष्पीडितरसं वा, पुलाकमसारं वल्लचनकादि, वा समुच्चये, 'जवणट्ठाए' यापनार्थं शरीरनिर्वाहार्थं निषेवते, यदि त्वतिवातोद्रेकादिना तद्यापनैव न स्यात्ततो न निषेवतेऽपि । गच्छगतापेक्षमेतत् । जिनकल्पी त्वेतान्येव सेवते । मन्थु बदरादिचूर्णं, अतिरूक्षतयाऽस्य प्रान्तत्वम् ॥१२॥ शुद्धषणाया बाधकानाह
जे लक्खणं च सुमिणं च, अंगविज्जं च जे पउंजंति । न हु ते समणा वुच्चंति, एवं आयरिएहि अक्खायं ॥१३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org