________________
१२४
श्रीउत्तराध्ययनदीपिकाटीका-१ कुर्वन् कारयन् वा मुच्यते, कदाचित् कस्मिंश्चिदपि काले, कैः सर्वदुखैः शारीरमानसैः, तृतीयार्थे षष्ठी । तत: प्राणातिपातनिवृत्ता एव श्रमणाः, त एव च तरन्तीत्युक्तं स्यात् । गर्वत्यागायाह-एवमार्यैरर्हद्भिराचार्यैर्वाख्यातमुक्तं, यैरयं मयि प्रत्यक्षं वर्तमानः साधुधर्मो हिंसाविरत्यादिरूपः प्रज्ञप्तः प्ररूपितो वा ॥८॥
साधुधर्ममेवाहपाणे य नाइवाएज्जा, से समिय त्ति वुच्चइ ताइ । तओ से पावयं कम्मं, निज्जाइ उदयं व थलाओ ॥९॥
व्याख्या-प्राणानिन्द्रियोच्छासादीन्नाऽतिपातयेत् , चात् कारणानुमत्योरपि निषेधः, मृषाधुपलक्षणं चैतत् । यः प्राणान्नातिपातयेत् स समितः समितिवानित्युच्यते । तायी रक्षकः प्राणिनां, ततः समितात् , 'से' अथार्थे, पापकं कर्म निर्याति । (पाठान्तरे 'निण्णाइ'त्ति देश्युक्त्या अधो याति ।) उदकमिव, यथोदकं स्थलादुच्चभूमेरधो याति ॥९॥ प्राणातिपातविरतिं स्पष्टयति
जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च ।
नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥१०॥
व्याख्या-जगल्लोकस्तन्निश्रितेषु तदाश्रितेषु भूतेषु त्रसनामसु त्रसनामकर्मोदयतो द्वीन्द्रियादिषु तथा स्थावरेषु, स्थावरनामोदयात् पृथ्व्यादिषु चः समुच्चये नो तेषु दण्डं वधमारभेत कुर्यात् , मनसा वचसा कायसा चार्षत्वात् कायेन चशब्दो भङ्गोपलक्षक:, तेन नारम्भयेत् , न चारभमाणानप्यन्याननुमन्येत । एवावधारणे । [पाठान्तरं-जगनिस्सियाणं भूयाणं, तसाणं थावराण य ।
____नो तेसिमारभे दंडं, मणसा वयसा कायसा ॥१॥] गतार्थमेव । न तेष्वारभेत दण्डम् ।।
अत्रावन्तीश्राद्धपुत्रदृष्टान्तः-अवन्त्यां श्राद्धसुतश्चौरैर्हत्वा मालवके राट्सूपकारहस्ते विक्रीतः, तेन लावकादीन्यमारयेत्युक्तेऽमारयंश्चपेटया हतस्तथाऽप्यमारयन् गाढं कुट्यमान आरटन् राज्ञा श्रुत्वाऽाकारित उक्तश्च, रे किं न जीवान् हंसि ? सोऽवक् अहो अहं श्राद्धो न हन्मि, ततो राज्ञा बलात् प्रेर्यमाणो जीवानघ्नन् हस्त्यग्रे क्षिप्तोऽपि नाऽहन् । ततः प्रसन्नो राजा तं स्वाङ्गरक्षकं चकार । यथा स मारेऽपि न मनोऽपि वधेऽकार्षीदेवं प्राणत्यागेऽपि अन्यैर्यत् ॥१०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org