SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अष्टमं कापिलीयाध्ययनम् १२३ शान्तिसुव्रता इह सन्ति, साधयन्ति पौरुषेयीभिः क्रियाभिर्मुक्तिमिति साधवः, ये तरन्ति अतरं तरणाऽशक्यं विषयौधं भवं वा, यतः विषयगण: कापुरुषं, करोति वशवतिनं न सत्पुरुषं । बध्नाति मशकमेव हि, लूतातन्तुर्न मातडं ॥१॥[ ] वणिज इव, यथा वणिजः पोतेनाब्धि तरन्ति तथा ।।६।। किं सर्वर्षयोऽतरं तरन्त्यथवा नेत्याह समणा मु एगे वयमाणा, पाणवहं मिया अयाणंता । मंदा नरयं गच्छंति, बाला पावियाहिं दिट्ठीहिं ॥७॥ व्याख्या-श्राम्यन्ति मुक्त्यै इति श्रमणाः स्मो वयं, इत्येकेऽन्यतीर्थ्या इति वदमानाः, 'दीप्तिर्ज्ञानं यत्र विमत्यपसम्भाषोपमन्त्रणे वद इत्यात्मनेपदं', प्राणिवधं, मृगा इवाऽज्ञाः अजानन्तो ज्ञपरिज्ञया, के प्राणिनः ? के वा तेषां प्राणाः ? कथं वा वध्यः ? इत्यनवबुध्यमानाः, प्रत्याख्यानपरिज्ञया च तद्वधमप्रत्याचक्षाणा इति । अनेन आद्यव्रतमपि ते न विदन्ति, आस्तां तर्हि शेषव्रतानि, मन्दा इव मन्दा मिथ्यात्वमहारोगा नरकं गच्छन्ति, बाला हेयोपादेयविवेकरहिताः, प्रापयन्ति नरकमिति प्रापिकाभिः, "न हिंस्यात् सर्वभूतानि" [ ] इत्याद्यभिधाय, "श्वेतं छागमालभेत वायव्यां दिशि भूतिकामः," [ ] इत्यादिपरस्परविरुद्धाभिः पापहेतुदृष्टिभिरदर्शनवन्तः, तथा "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भयो वैश्यं, तपसे शूद्रम्" [ ] । तथा यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥१॥[ ] इत्यादिभिर्दयादमबाह्याभिश्च, तद्बहिःकृतानां वल्कलादिधारिणामपि न केनचित् पापात् परित्राणं । यतः चर्मवल्कलचीराणि, कूर्चमुण्डजटाः शिखाः । न व्यपोहन्ति पापानि, शोधकौ न दयादमौ ॥७॥[ ] अत एवाह न हु पाणवहं अणुजाणे, मुच्चेज्ज कयावि सव्वदुक्खाणं । एवमारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥८॥ व्याख्या-नैव प्राणिवधं मृषावादादि च, अपेर्गम्यत्वात् अनुजानन्नपि, आस्तां Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy