________________
१२२
श्रीउत्तराध्ययनदीपिकाटीका-१
यथा
सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू ।
सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ॥४॥ व्याख्या-सर्वमशेषं ग्रन्थं बाह्यमभ्यन्तरं धनमिथ्यात्वादिकलहहेतुत्वात् , कलहं क्रोधं, चात् मानादींश्च, विप्रजह्यात् त्यजेत् । अभ्यन्तरग्रन्थरूपत्वेऽप्येषां बहुदोषज्ञप्त्यै पृथग्ग्रहणं, तथाविधं कर्मबन्धहेतुं, न तु धर्मोपकरणमपि । तथाविधो भिक्षुरिति सर्वेषु कामजातेषु शब्दादिविषयप्रकारेषु पश्यन् विपाककटुतादोषजातं, इति न लिप्यते कर्मणा, तायते त्रायते वा दुर्गतेरात्मानं सर्वप्राणिनो वा, तायी त्रायी वा । ग्रन्थत्यागे गुणमुक्त्वाऽन्यथा दोषमाह
भोगामिसदोसविसन्ने, हियनिस्सेयसबुद्धिवुच्चत्थे ।
बाले य मंदिए मूढे, बज्झइ मच्छिया व खेलमि ॥५॥ व्याख्या-भोगा एव गृद्धिहेतुत्वादामिषं, तदेवात्मदूषणाद्दोषस्तत्र विशेषेण सन्नो निमग्नः, भोगामिषदोषविषन्नः, हितं स्वहितं निश्रेयसो मोक्षस्तयोर्बुद्ध्या विपर्यस्तो विमुखः, यद्वा विपर्यस्ता हिते नि:शेषा बुद्धिर्यस्य स हितनिःशेषबुद्धिविपर्यस्तः, बालोऽज्ञः, मन्दो धर्माऽनुद्यतः, मूढो मोहाकुलचित्तो बद्धयते कर्मणा, मक्षिकेव खेले श्लेष्मणि, यथा सा स्निग्धतागन्धादिभिराकृष्यमाणा श्लेष्मणि मज्जति, मग्ना च रेवादिना बद्ध्यते, एवं जन्तुर्भोगामिषे निमग्नः कर्मणा बद्ध्यते ॥५॥ भोगानां प्रायो दुस्त्यजत्वमाह
दुपरिच्चया इमे कामा, णो सुजहा अधीरपुरिसेहिं ।
अह संति सुव्वया साहू, जे तरंति अतरं वणिया वा ॥६॥ व्याख्या-दुःखेन परित्यज्यन्ते इति दुःपरित्यजा इमे प्रत्यक्षाः कामाः संसारिणां, तत्रापि नैव 'सुजहा' न सुहानाः सुखत्यजाः, विषसंपृक्तमधुरान्नवदऽधीरपुरुषैरबुद्धैरसत्त्वैर्वा, पुरुषग्रहणं तु तेऽल्पवेदोदयात् सुखेनैव त्यक्तारः स्युस्तैरप्यमी न सुखेन त्यज्यन्ते, आस्तामतिघोरस्त्रीपङ्ककवेदोदयिभिः स्त्रीक्लीबैः, धीरैस्तु सुत्याज्याः । यच्चेह दुःपरित्यजा इमे इत्युक्त्वा पुनर्न सुहाना इत्युक्तं सा न पुनरुक्ति, विशेषद्योतकत्वात् । अथ पुनः सन्ति शोभनानि सम्यग्ज्ञानित्वेन व्रतानि हिंसाविरत्यादीनि येषां ते सुव्रताः, यद्वा शान्त्योपलक्षिता:
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org