________________
अष्टमं कापिलीयाध्ययनम्
चलं राज्यैश्वर्यं धनकनकसार: परिजनो, नृपाद्वाल्लभ्यं वा चलममरसौख्यं च विपुलं । बलं रूपारोग्यं चलमिह चरं जीवितमिदं,
जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः ॥१॥ [हरिलवाचकः] इदृशे संसारे 'दुक्खपउराए' दुःखप्रचुरे प्रचुराणि शारीरमानसानि दुःखानि यत्र, प्राकृतत्वात् प्रचुरदुःखे, यद्वा दुःखानां प्रचुर आयो लाभो यस्मिन् तस्मिन् दुःखप्रचुराये, किमिति प्रश्ने, नामेति च सम्भावने भवेत् । तत्कर्म किमनुष्ठानं ? येन कर्मणाऽहं दुर्गतिं नरकादिकां न गच्छेयं । भगवतोऽसंशयेऽपि दुर्गत्यभावेन चौरापेक्षयेत्थमुक्तं । (पाठान्तरेजेणाहं दुग्गइओ मुच्चेज्जा) इति । नागार्जुनीयास्त्वाद्यपादमित्थं पठन्ति–'अधुवम्मि मोहगहणाए' मोहेन दर्शनमोहनीयेन गहने इति ॥१॥
चौरैस्तालकुट्टनपूर्वकं ध्रुवकेऽस्मिन् प्रत्युद्गीते मुनिस्तत्कमैव ध्रुवकेणाहविजहितु पुव्वसंजोगं, न सिणेहं कहिंचि कुव्विज्जा ।
असिणेह सिणेहकरेहि, दोसपओसेहि मुच्चए भिक्खू ॥२॥ व्याख्या-विहाय विशेषेण पुनःस्मरणादिना हित्वा त्यक्त्वा पूर्वसंयोगं पुरापरिचितमातृपित्रादिस्वजनधनादेः संयोगं सम्बन्धं, न स्नेहं क्वचिद्बाह्येऽभ्यन्तरे वा वस्तुनि कुर्वीत, अस्नेहः स्नेहरहितः, अपेर्गम्यत्वात् स्नेहकारेष्वपि स्नेहकरणशीलेषु पुत्रादिष्वपि, आस्तामन्यार्थेषु, दोषैरतिचारैरिह मनस्तापाद्यैः प्रदोषैः परत्र नरकगत्याद्यैर्मुच्यते भिक्षुः ॥२॥
यत् स्वयं चक्रे तदाह
तो नाणदंसणसमग्गो, हियनिस्सेसाए य सव्वजीवाणं ।
तेसिं विमोक्खणट्ठाए, भासइ मुणिवरो विगयमोहो ॥३॥ व्याख्या-ततोऽनन्तरं भाषते मुनिवरः, विशेषावबोधो ज्ञानं, सामान्यबोधो दर्शनं, ताभ्यां केवलाभ्यां समग्रः समन्वितो, यद्वा समग्रे पूर्णे ज्ञानदर्शने यस्यासौ ज्ञानदर्शनसमग्रः, हितः प्रियो निःश्रेयसो मोक्षो हितनिःश्रेयसस्तदर्थं, यद्वा प्राकृतत्वान्निःशेषहिताय सर्वजीवानां, चः भिन्नक्रमः, तेषां च चौराणां तानेवोद्दिश्य भगवत्प्रवृत्तेः, विमोक्षणार्थाय अष्टविधकर्मपृथक्करणहेतवे भाषते, वर्तमाननिर्देशस्तस्मिन् काले मुनिवरो विगतमोहश्चारित्रमोहनीयाऽभावात् , यथाख्यातचारित्री ॥३॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org