________________
११८
श्रीउत्तराध्ययनदीपिकाटीका-१ मस्मादित्यनुत्तरं, अनुत्तरशब्दः सर्वत्र योज्य:, एतानि देवभवे लभते, तथा येषु मनुष्येषु भूय एतानि अनुत्तराणि स्युस्तत्र स स्वर्गादुत्पद्यते, कामाऽनिवृत्त्या यस्यात्मार्थोऽपराध्यति स बालः, इतरस्तु पण्डितः ॥२७॥
अथोपदेशमाह
बालस्स पस्स बालत्तं, अधम्म पडिवज्जिया ।
चच्चा धम्मं अहम्मिटे, नरएसु उववज्जई ॥२८॥ व्याख्या-बालस्याऽज्ञस्य पश्य बालत्वं, अधर्मं विषयासक्तिरूपं प्रतिपद्याभिगम्य (पाठान्तरे-'पडिवज्जिणो' प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य) त्यक्त्वा धर्म विषयत्यागरूपं, अधर्मिष्ठोऽसौ नरकेऽन्यत्र दुर्गतौ वा उत्पद्यते ॥२८।। तथा
धीरस्स पस्स धीरत्तं, सव्वधम्माणुवत्तिणो ।
चच्चा अहम्मं धम्मिटे, देवेसु उववज्जइ ॥२९॥ व्याख्या-धिया राजते, परीषहाद्यक्षोभ्यो वा धीरः, तस्य पश्य धीरत्वं धीरभावं, सर्वं धर्मं क्षान्त्यादिरूपमनुवर्त्तते, तदनुकूलाचारतया स्वीकुरुते, इत्येवं शीलस्तस्य सर्वधर्मानुवर्तिनः, स त्यक्त्वाऽधर्मं विषयरूपमसदाचारं धर्मिष्ठः सन् देवेषूत्पद्यते ॥२९॥
ततः
तुलियाण बालभावं, अबालं चेव पंडिए ।
चइऊण बालभावं, अबालं सेवई मुणी ॥३०॥ त्ति बेमि व्याख्या-तोलयित्वा अशुभशुभत्वेन विचार्य बालभावं अबालं अबालत्वं, चः समुच्चये, एवेति प्राकृतत्वान्म्लोपे एवमनन्तरोक्तप्रकारेण पण्डितस्त्यक्त्वा बालभावं अबालत्वं सेवते मुनिरिति समाप्तौ ब्रवीमीति प्राग्वत् ॥३०॥
इत्यौरभ्रीयं सप्तममध्ययनमुक्तम् ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org