________________
सप्तममौरभ्रीयमध्ययनम्
११७
मनुष्यविषयाः सन्निरुद्धे सङ्क्षिप्ते आयुषि सन्ति । एवं मनुष्यायुषोऽल्पतया सोपक्रमतया वा कामानामल्पत्वमुक्तं ऋद्ध्यादेश्च । 'कस्स' कं हेतुं कारणं पुरस्कृत्यााश्रित्य योगक्षेमं अप्राप्तविशिष्टधर्मप्राप्तिः प्राप्तस्य च पालनं न संवित्ते न जानीते जन इति । तदसंवित्तौ हि विषयरागो हेतुः, देवत्वे तदाधिक्याद्विषयार्थिनापि तत्प्राप्तिकारी धर्म एव कार्यः ||२४||
इत्थं दृष्टान्तपञ्चकमुक्तं, उरभ्रदष्टान्तेन भोगानामपायबहुलत्वं दर्शितं, अपायबहुलमपि यन्न तुच्छं तन्न त्यक्तुं शक्यं, इति काकिण्याम्रफलदृष्टान्ते तुच्छत्वं । तुच्छं च लाभच्छेदव्यवहारज्ञतयाऽायव्ययतोलनावानेव हातुं शक्त इति वणिग्व्यवहारदृष्टान्तः । आयव्ययतोलनाच्च कुशाग्रसमुद्रदृष्टान्तदृढता । तत्र दिव्यकामानां समुद्रजलोपमत्वमुक्तं, तथा च तदुपार्जनं महानायः, अनुपार्जनं च महाव्यय इति दर्शितम् ।
इह च योगक्षेमाऽसंवेदने कामाऽनिवृत्त एव स्यात्, तस्य दोषमाह-इह कामानियट्टस्स, अत्तट्ठे अवरज्झइ ।
सुच्चा णेयाउयं मग्गं, जं भुज्जो परिभस्सइ ॥२५॥
व्याख्या - इह नृत्वेऽर्हन्मते वा कामेभ्योऽनिवृत्तस्य आत्मार्थ आत्मनः सुखादिहेतुरर्थः स्वर्गमोक्षादिरपराध्यति नश्यति । यतः श्रुत्वा प्रतिपद्य च नैयायिकं मार्गं भूयः पुनः परिभ्रस्यति कामाऽनिवृतः, जिनागमश्रवणात् कामनिवृत्तिं प्रपन्नोऽपि गुरुकर्मत्वात् प्रतिपतति, ये तु श्रुत्वापि न प्रसन्नाः, श्रवणं वा येषां नास्ति ते कामाऽनिवृत्ता एवेति भावः ॥२५॥
कामनिवृत्तस्य गुणमाह
इह कामनियट्टस्स, अत्तट्ठे नावरज्झइ ।
पूड़देहनिरोहेणं, भवे देवेत्ति मे सुयं ॥२६॥
व्याख्या - इह कामेभ्यो निवृत्तस्य आत्मार्थः स्वर्गादिर्नापराध्यति न भ्रश्यति, कथं ? पूतिः क्वथितो देह औदारिकं शरीरं तस्य निरोधेन त्यागेन भवेत् कामनिवृत्तो देवः सिद्धो वेति मया श्रुतं गुरुभ्यः ||२६||
ततश्च
इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं ।
जत्थ भुज्जो मणुस्सेस, तत्थ से उववज्जइ ॥२७॥
व्याख्या - ऋद्धिः स्वर्णादिः, द्युतिर्देहस्य, यशः पराक्रमजं, वर्णो गाम्भीर्यादिगुणैः श्लाघा, गौरत्वादिर्वा, आयुर्जीवितं सुखं इष्टविषयाप्त्या, न विद्यते उत्तरं प्रधान
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org