________________
११६
श्रीउत्तराध्ययनदीपिकाटीका-१ विषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकाऽस्ति, मौलिकमिव नृत्वं तेऽतिक्रान्ताः, यद्वा अतिक्रम्योल्लङ्घ्य शीलवन्तः सदाचारा अणुव्रतमहाव्रतादिमन्तः सह विशेषेणोत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्तन्त इति सविशेषाः अत एवाऽदीना कथं वयमत्र भविष्याम इति वैक्लव्यरहिताः, परीषहोपसर्गादिसम्भवे वा अदैन्यभाजो देवत्वं यान्ति, महोपक्रमास्तु सिद्धिं यान्ति ॥२१॥ एतमर्थं निगमयति
एवमदीणवं भिक्खुं, अगारिं च विजाणिया ।
कहन्नु जिच्चमेलिक्खं जिच्चमाणो ण संविदे ? ॥२२॥ व्याख्या-एवं लाभान्वितमदीनवन्तं अदीनं भिक्षु अगारिणं वा, विशेषेण तथाविधशिक्षावशाद्देवनृगतिगामित्वेन ज्ञात्वा विज्ञाय यतमानो बुधः कथं नु इति वितर्के, 'जिच्चं'ति जेयं लभ्यं जेतव्यं ईदृक्षं देवनृगत्यात्मकं जीयमानो हार्यमाण इन्द्रियादिभिर्न संवित्ते ? संवित्त एव, जानीते । ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च संविदानश्च यथा न जीयते तथा यतते, यदा त्वसौ विषयव्यामोहतो हार्यमाणमात्मानं न जानीते तदा नृदेवगतिकर्मभिर्जीयत एव । उक्तो भोगिनामायव्ययज्ञप्त्यै वणिग्दृष्टान्तस्तुर्यः ।।२२।।
अथ नृसुरसुखमानज्ञप्त्यै पञ्चमो दृष्टान्त:
जहा कुसग्गे उदगं, समुद्देण समं मिणे । ___ एवं माणुस्सगा कामा, देवकामाण अंतिए ॥२३॥
व्याख्या-यथा कुशाग्रे यावदुदकं तिष्ठति तत्कुशाग्रोदकं, समुद्रेण समं मिनुयात्, कोऽर्थः ? कोऽपि कुशाग्रबिन्दुं करे लात्वा मिनोति, नीरमानं कुर्यात् यत्समुद्र इयानेवास्ति नाऽधिकः, ततो यावद्दर्भाग्राब्धिजलयोरल्पबहुत्वं, एवं मानुष्यकाः कामा देवकामानामन्तेऽन्तिके कृता अल्पबहुत्वे स्युः, यथा चान्यो जलबिन्दुमब्धिवन्मन्यते तथा रागी चक्र्यादिनृकामान् देवकामसमान् मन्यते । तत्त्वतस्तु कुशाग्रजलबिन्दोरिव जलधेनूकामानां दिव्यभोगेभ्यो महदेवान्तरम् ॥२३॥ उक्तमर्थं निगमयन्नुपदेशमाह
कुसग्गमित्ता इमे कामा, सन्निरुद्धंमि आउए ।
कस्स हेडं पुरा काउं, जोगक्खेमं न संविए ॥२४॥ व्याख्या-कुशाग्रशब्देन कुशाग्रस्थो जलबिन्दुरुच्यते, तन्मात्रा इमे कामा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org