________________
११५
सप्तममौरभ्रीयमध्ययनम् एवं मूलहारिणो युक्तिरुक्ता, मूलप्रवेशिनो युक्तिमथाह
एवं जियं सपेहाए, तुलिया बालं च पंडियं ।
मूलियं ते पवेसिति, माणुसं जोणिमिति जे ॥१९॥ व्याख्या एवं जितं लोलतया शाठ्येन देवत्वमनुजत्वे हारितं बालं सम्प्रेक्ष्य सम्यगालोच्य, तोलयित्वा दोषगुणवत्तया परिभाव्य पण्डितमलोलमशठं च नृदेवगतिगामिनं, जितमिति बालस्य विशेषणं, न तु पण्डितस्य, स भवात् मूलिकं मूलिधनं, ते मूलप्रवेशकवणिक्सदृशाः प्रविशन्ति [ ये ]मानुषीं योनिमायान्ति, बालत्वं त्यक्त्वा पण्डितत्वसेवनात् ॥१९॥ यथा
वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया ।
उर्विति माणुसं जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥ व्याख्या-विविधा मात्राः परिणामा यासां ताभिर्विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः, प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तं च-"चउहि ठाणेहिं जीवा मणुयाउयं बंधंति, तं जहा-पगइभद्दयाए, पगइविणीयपाए, साणुक्कोसयाए, अमच्छरियाई" [ ] त्ति । ये नरा गृहिसुव्रता गृहित्वे धृतसत्पुरुषव्रताः, न त्वणुव्रतादिधराः, व्रतसम्यक्त्वादिवत्त्वे हि देवगतेरेव भावात् । यतो लोका अप्याहु:
विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरं । अनुत्सेको लक्ष्म्याः सुहृदपि न याच्यः कृशधनः,
सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥१॥[ ] तथागमोक्तव्रतधारणस्य देवगतिहेतुत्वात् । ते उपयान्ति मानुषीं योनि, कर्मसत्या सत्यमनोवाक्कायकर्त्तव्यता, हुः यस्मात् , यद्वा सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद् व्यत्ययः, प्राणिनः, निरुपमकर्मापेक्षं चैतत् ।।२०।। लब्धलाभनृयुक्तिमाह
जेसिं तु विउला सिक्खा, मलिअं ते अइच्छिया ।
सीलवंता सविसेसा, अदीणा जंति देवयं ॥२१॥ व्याख्या-येषां, तुः एवार्थे, विपुला, निःशङ्कितत्वादिसम्यगणुव्रतमहाव्रतादि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org