________________
११४
श्रीउत्तराध्ययनदीपिकाटीका-१ मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिरूपो भवेत् , मूलच्छेदेन मानुषत्वगतिहान्या जीवानां नरकत्वं तिर्यक्त्वं ध्रुवं स्यात् ॥
__ अयं भावः-त्रयः संसारिणः सत्वा नृत्वं प्राप्ताः, तत्रैको माद्दवार्जवादिगुणाढ्यो मध्यमारम्भपरिग्रहयुक्तो मृत्वा नीवीधनवद्वणिग्वत्तदेव नृत्वं लेभे । द्वितीयः सम्यग्दर्शनचारित्रगुणेषु स्थितः सरागसंयमेन लब्धलाभवणिग्वद्देवेषूत्पन्नः, तृतीयः “हिंसे बाले मुसावाइ' इत्याद्यैः पूर्वोक्तैः सावधयोगैर्वतित्वा छिन्नमूलवणिग्वन्नरकेषु तिर्यक्षु चोत्पन्नः ।।१६।। मूलच्छेदमेव स्पष्टयति
दुहओ गइ बालस्स, आवई वहमूलिया ।
देवत्तं माणुसत्तं च, जं जिए लोलयासढे ॥१७॥ व्याख्या-द्विधा गतिर्नरकतिर्यग्गतिरूपा, बालस्य रागद्वेषाकुलस्य, 'आवइ'त्ति आगच्छति, वधः प्राणिवधः, उपलक्षणान्महारम्भपरिगृहाऽनृतभाषामायादयश्च, मूलं कारणं ययोर्गत्योस्ते वधमूलिके, यद्वा बालस्य द्विधा गतिः, तत्र गतस्यापत् स्यात्, सा कीदृशी ? वधो विनाशस्ताडनं वा मूलमादिर्यस्याः सा, मूलग्रहणच्छेदभेदातिभारारोपणादिग्रहः, लभन्ते हि जीवा नरकतिर्यक्षु विविधवधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यद्यस्माज्जितो हारित, लोलता पिशितादिलाम्पट्यं, तद्योगाज्जन्तुरपि लोलतेत्युक्तः, शाठ्ययोगाच्छठो विश्वस्तजनवञ्चकः, ततो लोलता चासौ शठश्च लोलताशठः, लोलता पञ्चेन्द्रियवधादीनां नरकस्य च हेतुः, उक्तं च-"महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पञ्चेन्दियवहेणं जीवा निरयाउयं नियच्छंति" [ ] । शठ इत्यनेन तु शाठ्यमुक्तं, तच्च तिर्यग्गतिहेतुः, यत:-"चउहि ठाणेहिं जीवा तिरियाउयं पकरंति माइल्लयाए नियडिल्लयाए अलियवयणेणं कूडतुलकूडमाणेणं' [ ], माया छद्मनिकृतिर्दोषाच्छादनम् ॥१७|| मूललाभभूतयोzत्वदेवत्वयोरिणात् पुनर्मूलच्छेदमेव समर्थयति
तओ जिए सया होइ, विविहं दुग्गइं गए ।
दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥१८॥ व्याख्या-ततो देवत्वनृत्वहारणात् तको वा बालो जित एव सदा स्यात् , द्विविधां नरकतिर्यग्भेदां दुर्गतिं गतः, ततः दुर्लभा तस्य देवनृत्वे हारितवत उन्मज्या, दुर्गतिनिर्गमनं, अद्धायां काले सुचिरादपि प्रभूतायामपि ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org